________________ 120 श्रीशान्तिनाथमहाकाव्यम् पञ्चदशः सर्गः अथ दुन्दुभिध्वननमाह देशेति देशत्यागमिव प्रवर्तयन्नन्तर्वैरिगणस्य पाप्मनः / आकाशे पणनाद दुन्दुभिः स्वाम्यश्वयमिव प्रकाशयन् // 69 / / पाप्मनः पापात्मकस्य अन्तर्वैरिगणस्य कामक्रोधाद्यान्तरिकशत्रुसमूहस्य देशत्यागं प्रवर्तयन् विदधदिव स्वामिनः शान्तिजिनस्य ऐश्वर्यं प्रकाशयन् ख्यापयन्निव आकाशे दुन्दुभिः प्रणनाद शब्दायितवान् अन्योऽपि राजादिः पटहादिवादनेन शत्रोर्निवासनं स्वमहत्वादि च ख्यापयतीति उत्प्रेक्षाऽलङ्कारः // 69 // अथ ध्वजं वर्णयति व्यभ्रेति-- व्यभ्राजिष्ट सुरेश्वरध्वजः, प्राकारत्रितयीपुरःसरः। कीर्तिस्तम्भ इवोपसर्पतां भव्यानां सुकृताधिवासिनाम् // 7 // प्रकारत्रितयस्य पुरःसरः अग्रे स्थितः सुरेश्वरध्वजः इन्द्रध्वजः उपसर्पतामागच्छताम् सुकृताधिवासिनाम् पुण्यात्मनां भव्यानां कीर्तिस्तम्भ इव व्यभ्राजिष्ट शुशुभे / उपमा // 7 // अथ तत्र वैमानिकदेव्य ऊर्ध्वस्थिता धर्म शृण्वन्तीत्याह स्वरिति स्वर्वासिपमदाः प्रमोदतः, पारद्वारेण कृतप्रवेशनाः / दत्त्वा त्रित्वमिताः प्रदक्षिणास्तीर्थ तीर्थपतिं प्रणम्य च // 71 // आग्नेयां दिशि तस्थुरुर्ध्वका, मुक्त्वा साधुजनार्यिकास्थितिम्, तन्मध्येऽवधिबोधवन्धुराः, किं जानन्ति न तादृशा खलु / / 72 // __ (युग्मम्) प्रमोदतः सहर्षम् प्राग्द्वारेण कृतं प्रवेशनं याभिस्ताः तादृश्यः प्रविष्टाः स्वर्वासिन्यः प्रमदाः स्त्रियो वैमानिकदेव्यः त्रित्वमिताः तिम्रः प्रदक्षिणाः दत्वा कृत्वा तीर्थ तीर्थपति शान्तिजिनं च प्रणम्य अवधिबोधेन अवधिज्ञानेन बन्धुराः शोभमानाः आग्नेय्यां दिशि साधुजनानामार्यिकाणां साध्वीनां च स्थितिं स्थानं मुक्त्वा, वर्जयित्वा, तन्मध्ये ऊर्ध्वका ऊर्ध्वाः तस्थुः तासां तादृशज्ञानं समर्थयति-तादृशाः अवधिज्ञानयुक्ताः किं न जानन्ति अपि तु जानन्तीत्यर्थः // 71.72 / / शेषमिति शेषं तच्च निकायनायकस्त्रैणं याम्यदिशा प्रविश्य च / सर्व पूर्वविधिं यथास्थितं, कृत्वा चास्थित नैर्ऋते क्रमात // 73 // तत्प्रसिद्धं शेषम् वैमानिकदेव्या अवशिष्टं निकायनायकानां भवनपतिव्यन्तरज्योतिष्कानां स्त्रैणं स्त्रीसमूहश्च याम्यदिशा दक्षिणदिशा प्रविश्य च यथास्थितं यथाविधि पूर्वविधिं प्रदक्षिणाप्रणामादिविधिं सर्वं कृत्वा यथाक्रमं नैर्ऋते कोणे आस्थितोपविष्टम् // 73 //