________________ 260 wwwwwwwwwwwwwwmmmmmmmmm श्रीशान्तिनाथमहाकाव्यम् सप्तदशः सर्गः। स राज्ञा पृष्टः नरः प्रोचे, किमित्याह नृपते ! कुतोऽपि मदज्ञातात् कारणादीदृशी भीः किवदन्ती भयजनकजनश्रुतिः समभूत्, इदृशीति किमित्याह यत् चण्डः अत्यन्तक्रोधशीलः चण्डस्त्वत्यन्तकोपनः" इत्यमरः चण्डसेनचरटः तस्करः विशालसैन्यश्च स चण्डसेनः क्षमापं श्रीपुरेशं पराजेप्यते पराभविष्यति, तत्तस्माद्धेतोः भोः लोकाः ! प्रपलायनं स्ववित्तादिरक्षार्थम् इतः शीघ्रं गमनं कुरुत, एतदुक्तप्रकारमाकर्ण्य च सर्वे जनाः पुरवासिनः नेशुः पलायामासुः अतो हेतोः तव श्रीपुरेशस्य समग्रं नगरं श्रीपुरं पुरं शून्यं विजनं बभूव // 214 // मथ माधवनिग्रहमाह मूरोत्पत्तिमिति मूलोत्पत्तिं प्रवृत्तेरपि विरचयता माधवोऽज्ञायि राज्ञा जिहाच्छेदेन मृत्युं स झगिति गमितो दुर्गतिं पाप पापः। . .. इत्थं राज्ञः कथेयं कथमपि विहिता दुर्जनस्यैव मैत्री कूलच्छायेव भव्या भवति न नृपते ? त्यज्यतां तत् प्रयत्नात् // 215 // राज्ञा प्रवृत्तेः तादृशजनप्रवादादिप्रसारणरूपायाः मूलोत्पत्तिं मूलम् प्रवृत्तेरायं प्रवर्तकं विरचयता शोधयता सता माधवः अज्ञायि माधव एव तन्मूलमिति ज्ञातम्, अतः स पापः पापकर्मा माधवः जिह्वाच्छेदेन जिह्वाच्छेदरूपदण्डेन कृत्वा झटिति मृत्यु गमितः प्रापितः दुर्गतिं नारकादिगति प्राप, इत्थमुक्तप्रकारेण इयमीदृश्युक्तप्रकारा राज्ञः कथा कथमपि दुर्जनस्य मैत्री इब विहिता कृता सती कूलच्छाया नदीतट्रच्छायेव, भव्या हितकारिणी न भवति, नृपते कुरुचन्द्र ? तत्तस्मान्नृपकथा प्रयत्नात् प्रयत्नपूर्वकम् त्यज्यताम् // 215 // सम्प्रत्युपसंहरन्नाह दिगिति ईदृक् पञ्चप्रमादप्रकृतिपरिहते धर्ममेवाऽऽदधानः साधुश्चित्तैकशुद्धया दशविधमतुलं सत्तितिक्षादिभेदात् / श्राद्धः सम्यक्त्वमूलं द्वयधिकदशविधाऽणुव्रतादिप्रभेदं सिद्धि प्राप्नोति राजन्नविकलसकलमाप्तकल्याणमालः // 216 // . राजन्! ईदृशानां पञ्चानां प्रमादानां क्रोधादीनां परिहृतेः परिहारपूर्वकम् सत्तितिक्षादिभेदादशविधमतुलमनुपमं धर्ममादधानः कुर्वन् चित्तैकशुद्धया साधुः शुद्धचित्तवृतिः सन् मुनिः सम्यक्त्वमूलं यस्य तादृशं द्वयधिकदशविधं द्वादशविधमणुव्रतादिप्रभेदं धर्ममादधानः अविकलं सम्पूर्ण यथास्यात्तथा सकला सर्वा प्राप्ता कल्याणमाला येन स तादृशः प्राप्तसमग्रसम्पूर्णहितः श्राद्धः श्रावकः सिद्धि मुक्तिं प्राप्नोति // 516 //