SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ बा. विजयदर्शनसूरीश्वररचितवृत्तिसहिते षष्ठः सर्गः / [85 तेन पुण्यपरिपाकवशेन, जीवनं विमलमाश्रयमाणा / हंसयोगपरभागनिमित्तं, सा परां सपदि नितिमाप // 54 // (युग्मम् )... सा प्रसिद्धा पद्मिनी कमलिनी विजने जनरहित तडागादो, ध्यानेन मीलितं मुद्रितं सरोवं कमलमेव नेत्रं यस्याः तादृशी सती, यामिन्याः रात्रेः विततं विस्तृतं यद्यामानां प्रहराणां चतुष्कं चतुष्टयं तद्यावत्, भृङ्गस्य भ्रमरस्य या हुस्कृतिः गुञ्जनं रात्रौ कमलमुखमुद्रेण भ्रमरस्य तत्र पिहितत्वाद्गुञ्जनाच्चेति भावः / सैव मिषं व्याजस्तेन स्मरस्य मन्त्रं यद्यस्मात् अजपत् जपति स्म। तेन हेतुना पुण्यस्य जपजन्यपुण्यस्य यः परिपाकः फलप्रदानाभिमुख्यं तदशेन, विमलं निर्मलम् अथ च रागादिमलरहितं जीवनं जलम् / अथ च प्राणान् सूर्योदये जलस्य नैर्मल्यादिति भावः। आश्रयमाणा धार्यमाणा सा पद्मिनी, हंसेन तदाख्यपक्षिणा, यद्वा हंसस्थ, तदाख्यपक्षिणः, अथ चात्मनः, यः योगः संयोगः / अथ च साक्षात्कारः, सूर्योदये हंसस्य कमलाकरे आगमनादिति भावः स एव परभागः अनुत्तमभाग्यम् , तनिमित्तं सपदि, परामुत्कृष्टा निवृतिं सुखं विकासमिति यावत् / अथ च निर्वाणम् आप प्राप / कमलानि विकसितानि हंसाश्च तत्र समागताः इत्यर्थः / अन्योऽपि हि ध्यानस्थः रात्रौ विजने मन्त्रं जप्त्वा पुण्यतः, रागादिरहितः सन् आत्मसाक्षात्कारान्मुक्तिमाप्नोति / एवं चात्र हंसादिश्लिष्टनेत्रादिरूपितविशेषणमहिम्ना कमलिन्यां मुनिव्यवहारसमारोपात्समासोक्त्यलकारः / / 54 // 55 // કમલિની એકાન્તમાં ધ્યાનથી જાણે ર્મિચાયેલી કમલરૂપી નેત્ર વાળી થઈ રાતના લાંબા ચાર પહેર સુધી ભમરાઓના ગુંજારવના બહાનાથી કામદેવના મંત્રના જપને કરતી હતી. 54 તે પુણ્યના ઉદયના લીધે નિર્મલ જળને આશ્રય કરતી હસ સાથે સંબંધ રૂપી ઉત્કૃષ્ટ ક્રિયાના કારણે તત્કાલ પરમ સુખને પામી (કોઈ જીવ આખી રાત આંખો મીંચીને ધ્યાનપૂર્વક મંત્ર જપે છે. તે પુર્વ બળે શુદ્ધ જીવ થવાથી પરમ ગુરુ મલવાથી મોક્ષ પામે છે તે વાત કમલને વિષે ઘટાવાઈ છે જીવન પાણી, જીવ, હંસપક્ષી પરમહંસ ગુરુ નિવૃત્તિ સુખ, મોક્ષ) પપ अथ धनवप्रवृत्तिमाह-- भास्करं समुदितं समवेक्ष्य, रत्नसारतनयः समुदस्थात् / पादपावलिसमाकुलमेकं, काननं च समवेत शून्यम् // 56 // भास्कर सूर्य समुदितं उदयप्राप्त समवेक्ष्य विलोक्य, रत्नसारतनयः धनदः, समुदस्थात् उत्थितवान् / पादपानां वृक्षाणामावलिभिः पक्तिभिः समाकुलं व्याप्तम् , एकं शून्यं विजनं काननं बनं च समवेक्षत, चेन तदुत्थानदर्शनयोरेककालता सूचिता // 16 // રત્નસારો પુત્ર ધનદ સર્વને ઉગે એ ઊઠ ને રણના સમૂહથી ગીચ એવું એક થન્ય વન જેવું. ૫દા वारिराशिपुलिने विपुलेऽसौ, सञ्चरंश्चरणचारितयैव / शुन्यपत्तनसमीपमुपेतः, कूपकं मधुरवारिमदर्शन // 57 //
SR No.004313
Book TitleShantinath Mahakavyam Part 02
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherNemidarshan Gyanshala
Publication Year1966
Total Pages288
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy