________________ बा. विषवदर्शनसूरीधररचितवृत्तिसहिते षष्ठः सर्गः। [ 76 તે સહદય ધનદ ઉત્તર દિશામાં જવાથી સૂર્યની જેમ પ્રતાપની વૃદ્ધિ થશે. એમ પિતાના મનમાં વિચારી ત્તર દિશા તરફ ચાલ્યો. 33 उत्तराशागमने हेत्वन्तरमप्याहउत्तराधिपतितां भजतः स्या-द्राजराजपदमित्यवधृत्य / श्रेष्ठिरः स धनदो धनदाशां, प्रास्थित स्थितिविदामवतंसः // 34 // उत्तरस्याः दिशायाः अधिपतितां स्वामित्वम, ताम् भजतः आश्रयतः, राजराजस्य धनदो राजराजो धनाधिप" इत्यमरवचनाद् धनाधिपस्य कुबेरस्य पदं स्थानं स्यात् / यथा कुबेरस्योत्तरा घिपतित्वे राजराजपदं तथेति भावः / इतीत्थमवधृत्य विचार्य, स्थितिविदाम् अवसरज्ञानाम् मर्यादाविदुराणाम् अवतंसः भूषणं श्रेष्ठिसूः स धनदः, धनदस्य धनदेवताकाम् आशा दिशं प्रास्थित // 34 // મર્યાદાના જાકારોનાં શિરોમણિ એ શ્રેષ્ઠીનો પુત્ર તે ધનદ ઉત્તર દિશામાં અધિક દૂર જવાથી કુબેરની જેમ રાજરાજનું પદ થાય એમ નિશ્ચય કરી કુબેરની દિશા–ઉત્તર દિશા તરફ ગયો. 34 अथ तस्य पथि तडागदर्शनं त्रिभिराह-- राजहंस-बक-सोरस-चक्र-मुख्यपक्षिकुलतारविरावैः / स्वादु-शीतल-सुगन्धिजलानि, वर्णयन्तमिव वार्घिजयाय // 35 / / वार्धेः समुद्रस्य जयाय समुद्रं जेतुं, वार्धी हथेतादृशसलिलाभावात् , तत्र क्षारस्यैव जलस्य सत्त्वात् तज्जय इति भावः, राजहंसाः बकाः सारसाः चक्राः चक्रवाकाश्च मुख्या येषु तेषां पक्षिणां कुलाना समुदायानां तारैरुच्चैः विरावैः शब्दैः कृत्वा, स्वादूनि मधुराणि शीतलानि सुगन्धीनि च जलानि वर्णयन्तं प्रशंसयन्तमिवेत्युत्प्रेक्षा, तडागमित्यग्रिमेणान्वयः // 35 // पिञ्जराणि सलिलानि जिनाना-माप्लवाय घुसृणैरिव देवैः / निर्मितानि दधतं रविरश्मि-बोधिताब्जपतयालुपसगैः // 36 / / रवेः सूर्यस्य रश्मिभिः किरणैः बोधितेभ्यः विकासितेभ्यः अब्जेभ्यः कमलेभ्यः पतयालुभिः पतनशील परागैः रजोभिः कृत्वा, एतेनात्र कमलातिशय उक्तः। नाल्पकमलपरागण इति भावः / पिञ्जराणि पिङ्गलानि कपिलानीति यावत् / 'पिजरः कपिलः पिङ्गल' इति हैमः / सलिलानि, जिनानाम् आप्लवाय स्नात्राय, देवैः घुसृणैः कुङ्कमैः, इव, निर्मितानि संस्कारितानि दधतं बिभ्रतम् , तडागमित्यग्रिमेणान्वयः / ( उत्प्रेक्षालङ्कारः) // 36 // क्षीरनीरनिधिमानममानं, तर्जयन्तमतिमात्रवितत्या / पान्थवर्गहृदयाहितरागं, यन्नसौ पथि ददर्श तडागम् // 37 // (त्रिभिर्विशषेकम् ) अतिमात्रमत्यधिका या विततिः विस्तारः तया कृत्वा, क्षीरनीरनिधिः क्षीरसमुद्रस्तस्य मानं