________________ 78 ] मीशान्तिनाथमहाकाव्ये पश्य कया रीत्या त्वां हसन्ति ? येनैते हसन्ति तथापि मूर्खतया हसेयुस्तेन किम् ? खला इति पश्येति भावः / ननु मया न किमपि दुसमाचरितम् / एवं च एते हसन्ति तेन किम् ! इति चेत्तत्राह-मनुष्यैः तदपि तदेव, कर्म कार्य विधेयं कर्त्तव्यं, येन, पिशुनस्य खलस्य हास्यं हसनीयं तत्कर्म, न स्यात् , त्वया तथा कृतं येन ते हसन्तीति भावः // 30 // તું દુર્જનોનાં બોલતા અને અત્યંત વિદ્રપ હસતાં મુખ જે, માણસોએ તે કામ કરવું કે જેનાથી લુચ્ચાઓ હસે નહિ. li૩ના निर्विमर्शमथितारणिजात-कोपपावकशिखाज्वलितस्य / एवमादिवचनैरपि तस्य, स द्विजिह्ववचनैरिव दूनः // 31 // निर्विमशोऽविचारः स एव, मथितः घृष्टः अरणिः निर्मन्थदारु "अरणिनिमन्थदारुणि" इति हैमः / तस्माज्जातः कोप एव पावकोऽग्निः, तस्य शिखया ज्वालया ज्वलितस्य सन्तप्तस्य तस्य स्वपितुः रत्नसारस्य, एवमादिवचनैः पूर्वोक्तप्रकारैरन्यैरपि वचनैः, स धनदः अपि द्विजिह्वाना सूचकानां वचनैरिव दून उपतप्तः "पिशूनः सूचको नीचो द्विजिह्वः" इति हैमः // 31 // આ વિચાર રૂપી મન્થન કરાયેલા અરણી કાષ્ઠથી ઉત્પન્ન થયેલા ક્રોધરૂપી અગ્નિની શિખાઓથી બળતા એવા તે પિતાના લુચ્ચાના કે સપના વચને જેવા આવા વચનોથી પીડિત થશે. 31 ___ अथ दूनस्य तस्य प्रवृत्तिमाहमातुरप्यसुखहेतुमनुक्त्वा , तं पराभवमदृष्टचरं सः / / नक्तमात्मसदनानिरयासीद्, दुष्करं किमिव तस्य तदेतत् // 32 // स धनदः, असुखस्य दुःखस्य ग्लानिरूपस्य हेतुं कारणम् , अदृष्टचरं पूर्वमननुभूतं तं पराभवं तिरस्कारं मातुरपि अनुक्त्वा, नक्तं रात्रौ 'नक्तमुषा रात्रौ' इति हैमः / आत्मसदनात्स्वगृहात्, निरयासीत् निःसृतवान् तस्य धनदस्य तदेतत् गृहान्निष्क्रमणं, किं दुष्करमिव ? ग्लानस्य तथाकरणं न दुष्करमिति भावः / / 32 / / માતાને પણ દુઃખ કરે એવા તે કદી નહિ અનુભવેલા અપમાનને કહ્યા વિના ધનદ રાત્રે પિતાના ઘરથી નિકળીને જતો રહ્યો. તેના માટે તે કંઈ દુષ્કર ન હતું. ૩રા अथ गृहानिःसृतस्य तस्य प्रवृत्तिमाहउत्तरां ककुभमाश्रयतः स्या-द्वानुमालिन इवाधिकधाम / एवमात्महृदये स विचिन्त्या-शोत्तरां सहृदयः प्रचचाल // 33 // उत्तरां ककुभं दिशाम, आश्रयतः गच्छतः ममेति शेषः, भानुमालिनः सूर्यस्य धाम वर्द्धते इति भावः / अधिकमुत्कृष्टं धाम प्रभावः स्यात् / एवमात्मनः स्वस्य हृदये विचिन्त्य, सहदयः प्रशस्तचित्तः मनस्वी स धनदः, आशासु दिक्षु उत्तरां दिशं प्रचचाल जगाम // 3 //