________________ ___76 ] श्री शान्तिनापमहाकाव्ये तद्गिरा प्रणिगदन् स सहस्र', हस्यते स्म वणिजैरतिवेलम् / युक्तिरिक्तमतिरिक्तमविद्वा-नुच्चरन् क इव वा न विहास्यः // 23 // म सिंहला, तन्मूल्यं सहस्रं गिरा वाण्या प्रणिगदन् कथयन् वणिजैः, अतिवेलमत्यन्तं हस्यते स्म, एतावन्मात्रस्य साधारणस्यैव पत्रस्येयन्मूल्यं किं स्यादित्येवमिति भावः / अतिरिक्तं विशेषमविद्वान् बजानानः, युक्तिरिक्तम् अयुक्तम् , उच्चरन् कथयन् क इव न वा विहास्यः, अपि तु हास्य एव भवतीत्यर्थः // 23 // “તું શું કહે છે. એમ તેના વચનથી એક હજાર સોનામહેર મૂલ્ય બોલના વેપારીઓ ઘણું હસ્યા જે મૂર્ખ અયોગ્ય રીતે અધિક મૂલ્ય કહે તે કોને હાસ્યાસ્પદ ન બને ? બધાને જ બને. મારા पर्यटन्नविकटं प्रतिहट्ट', खिन्न एव धनदाट्टमुपेतः / पत्रमूल्यममुनापि स पृष्टः, शिष्टवत् प्राणिजगाद सहस्रम् // 24 // खिन्नः हासाद्धेतोः विक्रयाभावाद्वा ग्लान एव, प्रतिहट प्रत्यापणम् , अविकटं सौकर्येण, पर्यटन भ्रमन , धनदस्याट्ट हट्टमुपेतः प्राप्तः, 'अट्टो हट्टः' इति हैमः / अमुना धनदेनापि पत्रमूल्यं पृष्टः सः, शिष्टवत् शिक्षितवत्सहस्रं प्रणिजगाद कथयामास // 24 // તે સહજ રીતે દરેક દુકાને ઘૂમત ધનદની દુકાને આવી પહોંચ્યા, તેના વડે પણ પત્રનું મુલ્ય પૂછાયું ત્યારે તે શિખાઉ જેમ હજાર સોનામહોર પડશે એમ બોલ્યા. રઝા स स्वयं गणकवद्गणयित्वा, सारमस्य विततार ससारः। श्लोकनिष्ठमविचार्य तमर्थ, दातुरस्ति यदि वा न विचारः // 25 / / स ससारः उत्तमः धनदः श्लोकनिष्ठं तमर्थं वाच्यमविचार्य श्लोकस्य कोऽर्थ इत्यविचार्यव गणकवत् गणयितृवत् गणयित्वा अस्य सिंहलस्य, कृते इति शेषः / सारं धनं विततार ददौ, "सारो धने" इति मेदिनी / ननु परिचयं विनैव तन्मूल्यदानं मन्दबुद्धिविलसितमेवेति चेत्तत्राह-यदि वा, दातुः विचारः न अस्ति भवति, यो हि क्रयणच्छलेन किश्चिदातुमिच्छति, तस्य वस्तुपरिचयो नावश्यक इति // 25 // ધનવાન એવો તે જોષીની જેમ તે પત્રનો સાર હોતે જ ગણ વિચારીને તે જુગારિયાને ધન આપ્યું કેમકે બ્લેકમાં રહે પ્રસિદ્ધ અર્થને વિચાર્યા સિવાય દાતાને આપવાનું વિચાર હેય નહિ. 2 પા. तत्र यातवति जातविधेये, द्यूतकर्मपरिकर्मविदग्धे / बुद्धितर्जितबृहस्पतिरेष, श्लोकमेतमपि वाचयति स्म // 26 // द्युतकर्मणः चुतक्रियायाः परिकर्मणि विधिविधाने विदग्धश्चतुरस्तस्मिन् यतकारे जातं सम्पन्नं विधेयं कार्य यस्य तस्मिन्, तत्र तस्मिन् सिंहले, यातवति गतवति सति, बुद्धया तर्जितः भत्सितः बृहस्पतिः येन स तादृशः एव, धनदः एतं क्रीतं श्लोकमपि वाचयति पठति स्म // 26 //