________________ आ. विषयादर्षनसूरीश्वररचितवृत्तिसहिते षष्ठः सर्गः द्यूतकृत् , मातुः, अपि, अपिना अन्यस्य का कथेति सूच्यते / परिधानं वस्त्रादि, अपहरेत् , लुम्पेत् एतत् जगति विश्रुतं प्रसिद्धम् / इति विचार्येति शेषः। भयेन भनभयेन, विह्वलं व्याकुलं चित्तं वस्खाः सा तादृशी, देवता, अभ्युपेत्यागत्य, तं सिंहलम् एवं वश्यमाणप्रकारं वदति स्म // 19 // જુગારિયો માતાના પહેરણનું પણ અપહરણ કરે આ પ્રસિદ્ધ વાતને લક્ષ્ય કરી ભયથી વ્યાકુળ ચિત્તવાળી દેવતાએ તેને એમ કીધું કે ૧લા कि जगादेत्याहकर्मठं जगति कर्म तदेकं, सर्वकर्मसु निबोध सुबोध ! / तद्विलय भवतो वितरीतुं, स्वापतेयमहमस्मि किमीशा 1 / 20 // सुबोध ! धीमन् ! अनुकूलनाय प्रशस्तं सन्बोधनम् , मूर्खा हि शमसाध्या भवन्तीति न्यायात् ! विपरीतलक्षणया तु दुर्बोध ! इत्यर्थः / जगति, सर्वकर्मसु शुभेष्वशुभेषु च तत्प्रसिद्धं कम भाग्यम् , एकं केवलं कर्मठम् फलसाधकम् , तत्कर्म विलध्य अतिक्रम्य, भवतस्तव, स्वापतेयं धनम् “वित्तं रिक्थं स्वापतेयम्" इति हैमः / वितरीतुं दातुम् , अहं देव्यपि, ईशा समयो, अस्मि किम् ? नैवेत्यर्थः / भाग्यसम्पन्ने एवाहं निमित्तम् , न तु स्वसामर्थ्यतः किञ्चिदपि दातुं शक्तेति भावः // 20 // હે બુદ્ધિમાન ! સંસારમાં બધા કામોમાં ફક્ત કર્મ જ ફળ આપવા સમર્થ છે. તે તેને ઓળંગીને તને ધન આપવા શું હું સમર્થ છું? નથી જ. રબા __ननु मम कुतो न तादृशं भाग्यमिति चेत्तत्राह-- अन्तरायमकृथा जनुषि त्वं, प्राचि तेन तव नास्ति धनायः / श्लोकपत्रकमिदं मम लात्वा, याहि दास्यति तथापि धनं ते // 21 // त्वं प्राचि पूर्वस्मिन् , जनुषि जन्मनि, अन्तरायं लाभान्तरायाख्यं कर्म, अकृथाः कृतवान् , तेन हेतुना, तव, धनस्य आय. लाभो नास्ति, तथापि देवदर्शनस्यामोषत्वात् , ममेदं श्लोकात्र लात्वा आदाय याहि, ते तव धनं दास्यति, लोकः // 21 // તે પૂર્વજન્મમાં અન્તરાય કર્મ ઉપાર્જન કર્યું હતું તેથી તને ધનને લાભ થતો નથી. છતાં મારો આ લેકને પત્ર લઈને જા તને ધન મળશે, રિલા पत्रकं तदुपगृहय च देवी-भाषितं भवति नैव वृथेति / आगतः स च चतुष्पथमिभ्यः, पृच्छयते स्म करपत्रकमूल्यम् / / 22 / / ___स सिंहलश्च देवीभाषितं, वृथा निष्फलं नैव भवति इति, विचिन्त्येति शेषः / तद्देवीप्रदत्त पत्रकं पत्रमुपगृह्य गृहीत्वा, चतुष्पथम् आगतश्च, इभ्यैः धनिकैः करस्थितस्य पत्रकस्य मूल्यं पृच्छयते स्म पृष्टम् // 22 // “દેવીનું વચન વ્યર્થ હેય નહિ' એમ માની તે પત્ર લઈ એક ઉપર આવ્યું. ત્યારે શેઠીઆઓ તેના હાથમાં રહેલા પત્રનું મૂલ્ય પૂછવા લાગ્યા. 22