SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ आ. विजयदर्शनसूरीश्वररचितवृत्तिसहिते षष्ठः सर्गः / / 73 बालकः प्रववृधे बहुधात्री-लालितो नवनवैश्च रसौषैः / / स द्विपत्रितसमुद्गतशाखी-वाङ्गभङ्गिभिर भंगुरशाखः // 12 // स बालकः धनदः, नवनवैः नूतनप्रकारैः, रसानां शरीरपोषकद्रव्याणाम् ओधैः समूहै, पक्षान्तरे नूतनजलधाराभिः, बहुभिः धात्रीभिरुपमातृभिः “धात्री तु स्यादुपमाता" इति हैमः / लालितः सेवितः, अथ च बहु यथास्यात्तथा धाच्या पृथिव्या “धात्री धरित्री धरणी” इति हैमः। लालितः / अङ्गानामवयबानां भङ्गिभिः रचनाभिः कृत्वा, द्विपत्र जातमस्येति द्विपत्रितः प्ररूढः यः समुद्गतः उत्पन्नः शाखी वृक्षः, सः, अभङ्गुरा अभग्नाः शाखाः विटपाः यस्य स तादृशः सनिव, अभङ्गुरदेहावयव विशिष्टः प्रववृधे वर्धते स्म / (श्लेषपुष्ट उपमालङ्कारः) // 12 // અનેક ધાવ માતાઓથી નવા નવા રસના સમૂહથી પાલન કરાતા અંગ રચનાથી સરલ શાખા અવયવો વાળે તે બાળક બે પત્ર વાળા (જન્મેલા) વૃક્ષની જેમ વધવા લાગે. ૧રા उत्सवेन पितरो हदि हृष्टौ, तं कलाविद मवापयतः स्म / साक्षिमात्रमुपलभ्य तमुत्को-ऽभ्यस्यति स्म स कलाः सकलास्ताः // 13 // हृदि हृष्टौ पितरौ मातापितरौ तं धनदम्, उत्सवेन महपूर्वकम् , कलाविदं पण्डितम् अवापयतः प्रापयतः स्म / स धनदः, तं कलाविदम् , साक्षिमात्रम्। एतेन कलाविदो नात्रायासविशेषः, तस्यालौकिकप्रतिभासम्पन्नत्वादिति सूचितम् / उपलभ्य प्राप्य, उत्कः विद्याध्ययनोत्कण्ठितः, सकलाः समस्ताः, ताः प्रसिद्धाः कला विद्याः, अभ्यस्यति स्म // 13 / / મનમાં પ્રસન્ન એવા માતા પિતાએ તેને કલાચાર્ય પાસે ઉત્સવ પૂર્વક મોકલ્યો. તે કલાચાર્ય ઉત્સુક થઈને તે બાળકને સાક્ષીમાત્ર રૂપે મેળવી બધી પ્રસિદ્ધ કલાઓ ભણાવી. 13 - कामिनीनयनमत्तचकोर-चक्रचङ्क्रमणयन्त्रणपाशः / __प्रत्यपद्यत स यौवनमिच्छा-हस्तिनीवनविलासनिवासः // 14 // कामिन्याः स्त्रियाः नयनान्येव सोत्कण्ठत्वाच्चकोरचक्राणि चकोरपक्षिवृन्दानि तेषां चक्रमणे कुटिलक्रमणक्रियायाम् दर्शनीयत्वेन स्थिरत पादकत्वात् यन्त्रणपाशः बन्धनरज्जुरिव, यं दृष्ट्वा स्त्रीणां नयनानि स्थिराणि भवन्तीति यावत् / तथा. इच्छा काम एव हस्तिनीनां वनं समूहः तस्य विलासस्य क्रीडायाः निवासः आस्पदम , स धनदः यौवनं तारुण्यं प्रत्यपद्यत प्राप्तवान् // 14 // ઈરછારૂપી કામરૂપી હસ્તિનીનાં વનવિહારના સ્થાન જેવો ને સ્ત્રીઓના નેત્રરૂપી મત્ત ચકોરના સમૂહને ચાલવામાં બંધન પાશ જે કામેચ્છાનો અવસરવાળા ને જેને જોતાં સ્ત્રીઓનાં નેત્રો થિર થઈ જાય એ તે યૌવનને પામે. 14 आपणे स निषसाद विषादं, सादयन् पितुरजस्रमितश्च / द्यूतकृत् सुकृतकुञ्जरसिंहः, सिंहलोऽत्र नगरे विदितोऽभूत् // 15 // स धनदः पितुः जनकस्य रत्नसारस्य आपणे हट्टे "हट्टो विपणिरापणः” इति हैमः / अजस्रं
SR No.004313
Book TitleShantinath Mahakavyam Part 02
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherNemidarshan Gyanshala
Publication Year1966
Total Pages288
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy