________________ पा. विजयदर्शनसूरीश्वररचितवृत्तिसहिते पञ्चमः सर्गः / [ 71 तत्र कोऽपि कनकादिरथोऽभू-न्मेदिनीपरिढोऽपि शुचिः सः। कुर्वता करतले करवालं, कीर्तिरापि युधि येन रिपूणाम् // 5 // तत्र कनकपत्तने नगरे, स प्रसिद्धः कोऽपि विलक्षणः शुचिः नीत्याद्याश्रयणेन कृत्वा पवित्रा, मेदिन्याः पृथिव्याः परिवृद्धः अधिपः महीपतिः, अपिश्चार्थे, कनकादिरथः कनकरथनामा अभूत् / येन कनकरथेन, युधि युद्धे करतले हस्ते करवालमसिं कुर्वता धारयता, रिपूर्णा शत्रूणां कीत्तिः यशः आपि प्रापि / रिपुहननेन तद्यशःप्राप्तिरिति भावः // 5 // ત્યાં પવિત્ર અને પ્રસિદ્ધ એ કનકરથ નામે એક રાજ હતું, હાથમાં તલવાર ધારણ કરતાં એવા જેણે શત્રુઓની સાથે યુદ્ધમાં કીર્તિ મેળવી હતી. પા तत्र भूपपरमाभ्युपपत्ते-जिनं सुजनरञ्जनधुर्यः / रत्नसार इति नाम महेभ्यः, पावनीकृतमहीतलकीर्तिः // 6 // तत्र नगरे, भूपस्य कनकरथस्य राज्ञः परमाया उत्कृष्टाया अभ्युपपत्तेः सम्मानस्य भाजनमास्पदम् , सुजनानां रब्जने प्रीणने धुर्योऽप्रेसरः, पावनीकृतं महीतलं यया सा तादृशी भुवनव्यापिनी कीर्तिः यस्य स तादृशः, रत्नसार इति रत्नसारनामा, महेभ्यः श्रेष्ठी, नामेति प्रसिद्धौ, न तु समस्तम् , पुंस्त्वापन्तेः / आसीदिति शेषः // 6 // ત્યાં જ રાજાના પરમ આદરને પાત્ર સજનોને પ્રસન્ન રાખનાર પૃથ્વીમાં વિસ્તૃત કીર્તિવાળો રત્નસાર નામે શેઠ હતે. 6 अथ श्रेष्ठिनमेव विशिनष्टि-- यस्य मानससरस्वति पुण्य-धीरनीरनिकरोत्थतरङ्गः। खेलति स्म सुतरां जिनहंसो, बुद्धिजातनलिनीवनपूर्णे // 7 // यस्य रत्नसारश्रेष्ठिनः, बुद्धिजातः प्रज्ञासमूह एव नलिन्याः कमलिन्याः वनं तेन पूर्णे, बुद्धिकमलाकरे। पुण्यमेव झीरं दुग्धं तदेव नीरनिकरः जलराशिः तेनोत्थः उद्भूतः तरङ्गो यत्र तस्मिन् पुण्यक्षीरनीरतरङ्गशालिनि, “मानसं मनः" इति हैमोक्तेः, मानसं मन एव सरस्वान् सागरः तस्मिन् "सरस्वान् सागरोऽर्णवः" इत्यमरः / जिनः अहंन्नेव हंसः, स, सुतरामत्यन्तं खेलति संचरति स्म / कमलाकरे क्षीरोदधौ हंसक्रीडोचितैवेति भावः / (रूपकालङ्कारः, परम्परितश्च) // 7 // જેના સમ્યજ્ઞાનરૂપી કમલવનથી પૂર્ણ એવા માનસરૂપી સમુદ્રમાં પુણ્યરૂપી દૂધ અને જળસમૂહથી થયેલા તરંગ સમાન જિનરૂપી હંસ સારી રીતે રમતા હતા જે બુદ્ધિમાન પુણ્યશાળી તે જિન ભક્ત હતા. પાછા प्रेयसी समभवन्मणिचूला, तस्य पुण्यकलिता सुचरित्रा / यां विलोक्य पतिभक्तिसमृद्धां, सा रतिर्न रतिमाप कथञ्चित् // 8 //