________________ * अहम् * // अथ षष्ठः सर्गः // पाणिस्थं बदरं यथा कलयति द्रव्येण कालत्रये, ____पर्यायेण तथाऽखिलं जगदमुं शान्तिं सदा शान्तिदम् / नत्वाऽनुग्रहकाम्यया रुचिमता मृद्वेव सर्गं मुदा, नाम्ना दर्शनसूरिरेष शुभधी-ाख्याति षष्ठं सुधीः // 1 // अथ षष्ठसर्ग प्रारभमाणः मङ्गलमाचरति-- कामधेनुसुरपादपचिन्ता-रत्नकामकलशा अपि सन्ति / यस्य कामजयिनः प्रतिहस्ताः, स श्रियेऽस्तु भवतां जिनशान्तिः // 1 // यस्य कामजयिनः कामविजेतुः वीतरागस्य श्रीशान्तिनाथस्य कामधेनुश्च सुरपादपः कल्पवृक्षश्च चिन्तारत्नश्च कामकलशश्च ते अपि / अपिना तेषां सर्वाभीष्टप्रदत्वे प्रसिद्धिः सूचिता / तादृशा अपि ते प्रतिहस्ताः प्रतिनिधयः एव सन्ति / प्रतिनिधिर्हि प्रतिनिधेयादपकृष्ट एव भवतीति कामधेन्वादेरपि (दितोऽपि) श्रोशान्तिजिनस्योत्कृष्टकामप्रदतोक्ता (त्कृष्टाभोष्टफलदायित्वमुक्तम् ) / स जिनो वीतरागश्चासौ शान्तिस्तदाख्यश्च तीर्थकरो भवतामध्येत्रध्यापकानां श्रिये कल्याणाय, अस्तु स्तात् // 1 // કામદેવને જીતનાર એવા, જેના કામધેનુ કલ્પવૃક્ષ અને ચિંતામણિ તથા કામકલશ પ્રતિનિધિઓ છે તેવા શ્રી શાંતિજિન, આપ વાચકોના કલ્યાણ માટે થાઓ. ના अथ पूर्वसर्गे उपक्षिप्तायाः धनवकथाया वर्णनाय भूमिकामारचयतिका प्रभो ! धनद इत्युदितोऽपि, क्षमाभुजा मुनिरुवाच तथाहि / द्वीपराजविनिषेवितजम्बू--द्वीपचक्रिकमलासुषमाकृत // 2 // क्ष्मामुजा राज्ञा अमिततेजसा, प्रभो ! कः धनदः भवदुक्त इत्युदितोऽपि पृष्टमात्र एव / एतेन कथावर्णने मुनेरुत्साहः सूचितः / मुनिः चारणमुनिः उवाच, किमित्यपेक्षायां निर्दिशतितथाहि-द्वीपराजेन द्वीपान्तरेण विनिषेवितस्य परिवृतस्य जम्बूद्वीपस्य तदाख्यस्य चक्रिणः चक्रवर्तिनः कमलायाः लक्ष्म्याः सुषमा परमां शोभा करोति सम्पादयतीति तत् तादृशम् , जम्बूद्वीपलक्ष्मीशोभाधायकम् / अस्याग्रेतनपत्तनमस्तीत्यनेनान्वयः / स्वागताच्छन्दः / तल्लक्षणं यथा-"स्वागतेति रनभाद् गुरुयुग्मम् // 2 // अस्ति योम्यभरतार्धधरित्री-भामिनीतिलकभूषणरूपम् / पत्तनं कनकपत्तनसंज्ञ, सान्वयं बुधजनैरपि वर्ण्यम् // 3 //