________________ था. विजयदर्शनसूरीश्वररचितवृत्तिसहिते पञ्चमः सर्गः / [ 63 स धर्मिल: शाखाभिः समाक्रान्तः व्यापितः नभस आकाशस्य विभागः प्रदेशः येन तं तादृशं महाशाखम् , विस्तृतिभावम् अतिमहत्वमेतैः प्राप्तैः सान्द्रः अविरले दलैः पत्रैः इलातले पृथिवीतलेऽपि छायामनातपं प्रकुर्वन्तं वद्रु वटाख्यवृक्षं दृष्ट्वा भृशं प्रणनाम // 206 / / તે આકાશમાં પહોંચેલાં શાખાઓ વાળા સધન પાંદડાઓથી ભરપૂર પૃથ્વી ઉપર છાયા કરતા એવા વિશાળ વડના ઝાડને ને વારંવાર નમન કરતો હતો. 20 પાાં अथोपसंहरति-- इत्यादि सावद्यममुष्य कर्म, सचिन्वतो धर्मधिया जड़स्य / भूयान् व्यतीयायतमामनेहा, हा ! कष्टमज्ञानमपास्य किं वा // 206 // इत्यादि पूर्वोक्तं सावधं पापकारि कर्म पूर्वोक्ततत्तत्कर्मणाम् जीवघातकतया जडपूजनादेश्च अज्ञानविलासत्वेन जाड्यप्रवर्धकतया सावद्यता आगमे प्रतिपादितेति भावः / धर्मस्य धिया बुद्ध था संचिन्वतः अर्जयतः, अमुष्य जडस्य धर्मिलस्य भूयान् अतिप्रभूतः अनेहा काल:, व्यतोयायतमाम् व्यतीतः / हा इति खेदे, अज्ञानमपास्य त्यक्त्वा, किं वा कष्टम् ? न किमपोत्यर्थः। अज्ञानादेवैतादृशाग्निसंतापादिकष्टसहनं तस्य, शाने सति तु सात्रद्यत्वात्तत्त्यज्येतैवेति / अज्ञानमेव सर्वाधिक कष्टमिति तेन जडेन न ज्ञातमिति भावः / / 206|| આમ ધર્મ બુદ્ધિથી આવા સાવદ્ય કર્મોનું ઉપાર્જન કરતા આ મૂર્ખના ઘણા દિવસો પસાર થયા હા અજ્ઞાન સિવાય બીજું કષ્ટ શું છે. ર૦૬ सोऽन्येद्यरालोक्य नभोऽन्तराले, विद्याधरं यान्तमतुल्यरूपम् / चक्रे निदानं मनसेत्यबुद्धि-भूयासमीक् तपसाऽमुनाऽपि // 207 // अन्येधुः एकदा नभसः आकाशस्यान्तराले मध्ये अतुल्यरूपम् अनुपमं रूपं सौन्दर्य यस्य तं तादृशं विद्याधरं यान्तं गच्छन्तमालोक्य, अबुद्धिः अज्ञः सः, ज्ञानी तु मुक्तिमेवेहते इति भावः / धर्मिलः अमुना अनुष्ठीयमानेन तपसा ईगपि ईदृश एवं भूयासं भवेयमिति मनसा निदानं संकल्पं चक्रे // 207 // તે મુખે એક દિવસે આકાશમાં અપ્રતિમ સૌંદર્ય વાળા વિદ્યાધરને જાતા જોઈ આમ નિયાણું કર્યું કે આ તપથી હું પણ આવો થાઉં. ૨૦૭ળા मृत्वा स स विद्याधरसार्वभौम-स्येन्द्राशनेरिन्द्रपराक्रमस्य / देव्याऽऽसुरीकुक्षि भवस्त्वमासी-चश्चानगर्यां नगराजसारः // 208 // स धर्मिलः मृत्वा चश्चानगर्याम् इन्द्र इव पराक्रमो यस्य तस्य, विद्याधराणां सार्वभौमस्य चक्रवर्तिनः इन्द्रासनेः तन्नाम्नः सम्राजो देव्यः पट्टमहिष्याः आसुर्यास्तदाख्यायाः कुक्षेरुदराद्भवो जन्म यस्य स तादृशः, नगराजः पर्वतेन्द्र इव सारो बलं यस्य स तादृशः, त्वमासोरभवः // 208 / /