________________ 64 ] श्रीशान्तिनाथमहाकाव्ये તે મરીને ચંપાનગરીમાં સમાન પરાક્રમી વિદ્યાધરેદ્ર ઈન્દ્રાશનિનો દેવી આસુરીને ગર્ભજ પર્વતરાજ જે બળશાળી એવો તું થશે. 208 अथोपसंहरतिप्राग्जन्मसम्बन्धवशात्ततोऽस्यां, स्नेहस्तवाभूदवलोकितायाम् / श्रुत्वेति संवेगतरङ्गितास्ते. सभ्या बभूवुः सुकृतोपलभ्याः // 209 / / ततः तस्मात् प्राग्जन्मनि यः सम्बन्धस्तद्वशात् अवलोकितायां दृष्टायामस्यां सुतारायां तव स्नेहः अभूत् / इतीत्थं श्रुत्वा ते सभ्याः तत्सभास्थाः श्रीविजयादयः सुकृतमुपलभ्यं येषां ते तादृशाः पुण्यवन्तः, संवेगेन वैराग्येण तरङ्गिता प्रबुद्वमानसा बभूवुः // 209 / / તેથી પૂર્વજન્મના સંબંધને લીધે તને સુતારને જોતાંવેંત જ પ્રમાદ થયો હતો, આ સાંભળી પુણ્યશાળી એવા સભ સદે વૈરાગ્યથી પૂર્ણ મનવાળા થઈ ગયા. ૨૦લા भव्योऽहमाहोस्विदभव्यरूप, इत्युक्त एवामिततेजसाऽपि / संवित्तिगङ्गातटिनीतुषार-क्षोणीधरो राममुनिर्वभाषे // 210 // अमिततेजसाऽपि, अहममिततेजाः भव्यः, आहोस्विदथवा अभव्यरूपः अभव्यात्मेतीत्थमुक्तः पृष्ट एव, संवित्तिः ज्ञानमेव गङ्गा तन्नाम्नी तटिनी नदी तस्याः तुषारस्य हिमस्य क्षोणीधरः पर्वतः हिमाचलः श्रुतज्ञानगङ्गाप्रवृत्तौ हिमाचलोपमः राममुनिरचलनामा बलदेवमुनिर्बभाषे ऊचे // 210 / / (પછી, અમિતતેજ વડે હું ભવ્ય છું કે અભવ્ય ? એમ પૂછાયેલા જ્ઞાનરૂપી ગંગા નદીના હિમાલય સમાન બળભદ્ર અચલ મુનિએ ઉત્તર આપ્યો કે–૨૧૦: अथ तदुक्तिमेवाहअस्माद्भवान्नवम एव भवे भवाना-मुच्छेद कोऽत्र भरते भवितासि भव्यः / त्वं पञ्चमोऽनुपमविक्रमधामचक्री, श्रीशान्तिनाथ इति षोडश एव चाहन् // 211 // भव्यस्त्वमस्माद्वर्त्तमानाद्भवात् जन्मनः नवमे भवे एव / अत्र भरते, भवानाम जन्मनाम उच्छेदकः विलयकारी संसारान्तकृत् पञ्चमः अनुपमस्यासाधारणस्य विक्रमस्य धामास्पदं चासौ चक्री च स तादृशः पञ्चमचक्रवर्ती भविता असि / श्रीशान्तिनाथ इति षोडशः, अहन् तीर्थकरश्च, भविता. सीति सम्बध्यते ( वसन्ततिलकावृत्तम् ) // 21 // તમે ભવ્ય છે. (અને) આ ભારતમાં આ ભવથી નવમા ભ ભોને ઉચ્છેદ કરનાર શ્રી શાંતિનાથ નામે અનુપમ પરાક્રમ ને તેજવાળા પાંચમા ચક્રવતી તથા સોળમા તીર્થંકર થશે. ર૧ एष श्रीविजयस्तदादिमतमश्चक्रायुधो नन्दनः सम्भावी भवतस्तथा गणधरोऽप्येषोऽपि विश्वार्चितः /