________________ आ. विजयदर्शनसूरीश्वर रचितवृत्तिसहिते पञ्चमः सर्गः। . [ 59 मास / कपिल विझप्तमात्रोऽथ मुनिर्बभाण, श्रीषेणभूपादिकवृत्तमेवम् / निष्ठापयामास भवं भ्रमित्वा, दुष्कर्मजातं कपिलोऽपि तादृक् // 19 // अथानन्तरम् , एवं पूर्वोक्तप्रकारेण विज्ञापनानन्तरमेव, न तु विलम्ब्य, तस्य केवलित्वेन सकलज्ञत्वादिति भावः। मनिरचल: श्रीषेणभपादिकस्य वृत्तं वृत्तान्तं बभाण कथयामास अपि, तादृक् दुष्कर्मणः जातं समूहं भवं भ्रमित्वा निष्ठापयामास क्षपयामास // 161 / / પછી મુનિએ તે પૂછતાંની સાથે જ શ્રીષેણ રાજા વિગેરેના પૂર્વ સમાચાર કહી સંભળાવ્યા, આમ તે કપિલે સંસારમાં ભમીને પોતાનાં દુષ્કર્મ સમૂહનો અન્ત આણ્યો. ૧૯પા , ___ अथानन्तरपूर्वभवकथामाहभीतेः पदव्यामपि भूतरत्ना-टव्यां महाश्वापदसंश्रयायाम् / / एरावतीद्वीपवतीतटान्ते, जज्ञे जटी कौशिकनामधेयः // 192 // महतां श्वापदादीनां व्याघ्रादीनां हिंस्रजन्तूनां संश्रयः निवासः यत्र तादृश्याम् अत एव भीते: भयस्य पदव्यां स्थानेऽपि भतरत्नेत्यभिधायां महाटव्याम ऐरावत्याः तदाख्यायाः द्वीपवत्याः नद्याः "द्वीपवती स्रवन्ती निम्नगापगा" इत्यमरः / तटस्य अन्ते समीपे कौशिकनामधेयः जटी जज्ञे जातः // 192 / / મહાન હિંસ્ત્ર પશુને આશ્રય ને ભયનું સ્થાન એવા ભૂતરત્ન વનમાં ઐરાવતી નદીના કાંઠે કૌશિક નામનો જટી થયો. ૧૯રા तद्वन्लभाऽभूत् पवनादिवेगा, धर्मक्रियायाः सहकृत्वरी या / सूनुस्तदीयः कपिलस्य जीवः, कर्मे रितोऽजायत धर्मिलाख्यः // 193 / / तस्य कौशिकस्य वल्लभा पत्नी पवनादिवेगा पवनवेगा नाम्नी अभूत् / या पवनवेगा धर्मक्रियायाः सहकृत्वरीं सहकारिणी आसीत् / तदीयः कौशिकस्य सूनुः कर्मणा ईरितः प्रेरितः कपिलस्य जीवः धर्मिलाख्यः अजायत // 193 / / ધર્મ કાર્ય માં સાન આપવા વાળી એવી પવનવેગા નામે પત્ની હતી. કર્મથી પ્રેરાયેલો કપિલજીવ તે બન્નેને ધમિલ નામે પુત્ર થયું. 1935 उत्क्रान्तवाल्यः स्वपितुस्तपस्यां, लात्वा स्वयं बालतपः स तेपे / बिभ्रजटा मूनि घनाः पिशङ्गी-भतिं प्रभूतां च गृहीतवन्कः // 194 / / उत्क्रान्तं व्यतीतं बाल्यं यस्य स तादृशः प्राप्तयौवनः स धर्मिलः स्वपितुः सकाशात्तपस्यां तापसदीक्षा लात्वा गृहीत्वा, मूनि मस्तके घनाः अविरलाः पिशङ्गीः पिङ्गलाः जटाः "पिङ्गलः श्यावः पिशङ्गः" इति हैमः / प्रभूतामधिकां भूतिं भस्म च बिभ्रत, गृहीतं वल्कं वल्कलं येन स तादृशः