________________ भीशान्तिनाथमहाकाव्ये त्वग्वसनः सन् स्वयं बालतपः अज्ञानतपस्तेपे कृतवान् / त्वचि छल्लोचोचं वल्कञ्च वल्कलम् इति हैमः // 194 / / તે કપિલ બાલ્યાવસ્થા વીત્યા છતાં પોતાના પિતાની જેમ વહકલને પહેરતે ને મસ્તક ઉપર સઘન એવી પીળી જટાને તથા ઘણી જ ભસ્મને ધારણ કરતે પિતાથી વ્રત લઈ પોતે બાબત પ કરવા લાગ્યો. 194 ग्रीष्मे चतुर्णा ज्वलतां समिद्भिः, सप्तार्चिषां मध्यगतः स म्ढः / मध्ये चतुर्णां हरिदीश्वराणां, शक्रः स्वतेजोभिरिवावभासे // 195 / / स मूढः मन्दबुद्धिः ग्रीष्म ऋतौ समिद्भिरेधोभिः ज्वलतां चतुर्णां चतुर्दिक्षु स्थितानां सप्तार्चिषामग्नीनां मध्यगतः पञ्चाग्नितपश्चरन् , स्वतेजोभिः, चतुणां हरितां दिशामीश्वराणां दिक्पालाना मध्ये शक इन्द्र इव आबभासे रेजे // 115| - ગ્રીષ્મઋતુમાં (ચારે દિશામાં) કાઠને ચારે બાજુ અગ્નિ સળગતો છતાં તેની વચ્ચે રહેલે તે મૂર્ખ ચાર દિફપતિ દેવોની વચ્ચે ઇન્દ્રની જેમ પોતાના તેજથી પ્રકાશતો હતે. 195aa धाराभिरासारनिपातिनीभिरीणि वर्षासमये स सेहे / जाज्वल्यमान-ज्वलनोपताप-सन्तापितो वा किमसौ तपस्वी // 196 / / स धर्मिला वर्षासमये प्रावृषि "धारासम्पात आसार" इत्यमरोक्तः आसारेण धारासम्पातेन निपतन्तीत्येवंशीलाः आसारनिपातिन्यस्ताभिः अविरलमुसलप्रमाणाभिः मेघधाराभिः पतन्ति वारीणि जलानि सेहे। तत्रोत्प्रेक्षते-जाज्वल्यमानस्य ज्वलनस्याग्नेरुपतापेनोष्मणा सन्तापितः असौत धर्मिल: किम् ? निदाघसन्तप्तस्य हि जलसहनं युज्यत एवेति भावः। नहि वर्षासहनं व्रतं किन्तु पूर्वप्राप्ततापनिवारणार्थमेव तदिति कटाक्ष्यते // 196 / / શું તે તપસ્વી ભડકે બળતા અગ્નિના તાપથી પીડાતો હતો માટે વર્ષાઋતુમાં ધેધમાર વરસતા પાણીને સહતો હતો ? 19 अन्तर्गतेनेव निपीड्यमानो, जाडयेन जाड्य सहते स्म शीते / नो रल्लक नापि स वल्कलानि, वासः प्रतीयेष न वेषामात्रम् // 197 // अन्तर्गतेन हृद्गतेन जाड्येन जडतया मन्दबुद्धिमत्तया निपीड्यमानः इव स धर्मिलः शीते हिमतौ जाड्यं शैत्यं सहते स्म / यथान्तर्गतजडतया निपीड्यमानस्तथा बाह्येनापि बालतपसा इति महाजडः / स इति कटाक्ष्यते / जैननये तादृशतपोनिषेधादिति भावः / ननु यदि कम्बलादि भवेत्तर्हि कुतः शीतपीडेति चेत्तत्राह-नो रल्लक, “समौ रल्लककम्बलौ" इत्यमरः / न कम्बलं, न वल्कलानि वृक्षत्वचः, न वासः कार्पासं वा प्रतीयेष दधौ, किन्तु वेषमात्रं तापसवेषमात्रं प्रतीयेषेति // 197 / / તે શિયાળામાં પિતાનામાં રહેલી જડતાથી પીડાતે જાણે ઇડને સહતે હતો. તેણે કમ્બલ વહકલ વસ્ત્ર