________________ 50 ] भोशान्तिनाथमहाकाव्ये શત્રુન્યની સામે ચાલ્યા. 158 अथ तस्य पराक्रममाहतस्य प्रहारैः परुषैर्गदाया, नद्या इवाऽगाः सलिलप्रवाहैः / भग्ना नरेन्द्रामिततेजसोऽपि, सम्बद्धमूला अपि ते कुमाराः // 156 // तस्याशनिघोषस्य गदायाः परुषैः कठोरैः प्रहारैः, नद्याः सलिलस्य प्रवाहै: वेगैः अगा वृक्षा इव / नरेन्द्रामिततेजसः अपि, सम्बद्धं व्यूहबद्धं मूलं सैन्यं येषां ते तादृशा अपि कुमाराः भग्नाः विदीणोंः / अशनिघोषगदाघातमसहमानाः पलायिता इत्यर्थः / (उपमालङ्कारः) // 159 / / તે અશનિષની ગદાના કઠોર પ્રહારોથી, નદીના પાણીના પ્રવાહોથી મૂલથી જામેલા એવા વૃક્ષની જેમ પગ જમાવી ચુકેલા રાજા અમિતતેજના તે કુમારો પુત્રો) પણ ભાગી ગયા. 159 ____ अथ श्रीविजयप्रवृत्तिमाहदृष्ट्वा पराभृतपराक्रमांस्तान्, योद्धु स्वयं श्रीविजयो डुढौके / सेनाचरान् स्वस्य पलायमानान, धीरैर्वचोभिर्विनिवर्तयंश्च // 160 // पराभूतः भग्नः पराक्रमः येषां तान् तादृशान् पराजितान् पलायितांश्च तान कुमारान् दृष्ट्वा श्रीविजयः चोऽप्यर्थे स्वस्य पलायमानान् पलायितान् सेनाचरान् धीरैः धैर्यजनकैः वचोभिः विनिवर्तयन् स्वयं योद्धु डुढौके प्रवृत्तवान् // 16 // શ્રીવિજય રાજ તેઓને ભાગી ગયેલા પરાક્રમ વાળા જોઈ અને પિતાના સૈન્યને નાશતું જોઈ ધર્યના વચનથી તેને પાછું ફરવાનું કહેતો, પોતે યુદ્ધ કરવા તત્પર થયો. 16 ના अथ श्रीविजयस्य तदवधोरणमाह-- नैवापराद्धं भवतो ममापि, सेनाचरैरेभिरतो हतैः किम् / त्वं मे कलत्रापहृतेविरोधी, त्वं हन्तुमिच्छस्तव चाहमस्मि // 161 // भवतः तव ममापि च, सेनाचरैः नैव अपराद्धम् अपराधः कृतः / अतस्ते निर्दोषाः, अतोऽस्मात्कारणात . एभिः हतैः विनाशितैः किम न किमपि लभ्यमित्येषां हननमनुचित मित्यर्थः / नन तहिं को हन्तव्य इति चेत्तत्राह-त्वं कलत्रस्य अपहृतेः कारणात् मे मम विरोधी शत्रुः / तव चाह विरोधोति सम्बध्यते / अतः त्वां हन्तुमिच्छुरस्मि // 161 / / तस्मादरे ! रेऽशनिघोष ! युद्धं, कार्यं त्वयाऽमा मयका च नान्यः / इत्युद्धतध्वानमसौ निवार्या-शेषान् भटान् स्वानपि तेन तस्य // 16 // श्रीपोतनमामघवा निरुद्धं, प्राक्रस्त तेनाशनिघोषकेण / तिष्ठन् क्षणं व्योमनि सैनिकानां, विस्माययन् मानसमात्तहर्षम् // 163 //