SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ 48 ] भीमन्तिनाथमहाकाव्ये अबलेपं गर्व भजन्तीति ते तादृशामभिमानिनां सेनाचराणां सैन्यानाम्, एतादृशः सम्परायः युद्धमजायत, 'अथापदि युद्धायत्योः सम्परायः' इत्यमरः / यस्मात् उत्साहः स्येयान् संरम्भः, न त्वाद्यातादिना पलायनम् , स एव चन्द्रः, तस्योदयेन वर्धमानः, रक्तस्योदसिन्धुः सागरः प्रचचार प्रववृधे / वीराणां हि रक्तादिदर्शनेन युद्धोत्साहो वर्धते, ततश्चाधिकप्रहारादिनातिशयेन रक्तपात इति तसिन्धुरेव प्रववृधे इत्यर्थः / अत्र रक्तस्योदकत्वेन रूपणेनैवोत्साहस्य चन्द्रत्वेन रूपणं संगच्छते इति परम्परितरूपकालकारः // 152 // ગર્વિષ્ઠ એવા સિન્યના ઉત્સાહ રૂપી ચંદ્રના ઉદયથી વૃદ્ધિને પામત-એવું યુદ્ધ થયું કે જેથીલેહીને સમુદ્ર જ જાણે પ્રગટ થયે ના હોય. ૧૫રા __अथ रक्तोदसिन्धुमेव पञ्चभिविशिष्टियो वीविस्फारितखड्गयष्ट्यया, विच्छिन्नकुम्मस्थलकुम्भिदेहात् / संजातयाऽमृम्भिरुदित्व घे, रक्तोदया वल्लभया परीतः // 153 / / यः रक्तोदसिन्धुः, वीरेण विस्फारितया प्रक्षिप्तया, यद्वा वोराणां विस्फारितया विशालया, खगयष्ट्यां कृपाणेन विच्छिन्न भिन्नौ कुम्भस्थलौ येषां तादृशानां कुम्मिनां गजानां देहात् उदित्वरः निर्गत्वर औषः प्रवाहः येषां तैः तादृशैः असृग्भिः शौणितैः, सञ्जातयोद्भूतया रक्तमुदकं यस्यास्तया नद्या, वल्लभया प्रियया परीतः संगतः आसीदिति शेषः / अब्धेः सरित्पतित्वादेवमुक्तिरिति बोध्यम् // 153 // જે રક્તસમુદ્ર વીરોએ ચલાવેલી તલવારથી કપાયેલા મસ્તક વાળા હાથીઓના દેહથી નીકળતા લેહીના પ્રવાહથી ઉત્પન્ન થયેલી લેહરૂપ જળવાળી રક્તોદ નદી નામે પ્રિયા સાથે જોડાયો. 153 वीरै विभिन्न द्विपराजकुम्भ-निष्पातिमुक्ताफलमण्डलानि / यस्मिन्नभूवन बहुशो विभान्ति, धात्रीफलानीव समुज्ज्वलानि // 154 // यस्मिन् रक्तोदसिन्धौ, समुज्ज्वलानि भास्वराणि, बहुशः बहुसंख्यकानि, वीरैः, विभिन्नेभ्यः विदारितेभ्यः द्विपराजानां गजेन्द्राणां कुम्भेभ्यः निष्पातानि पतनशोलानि मुक्ताफलानां गजमौक्तिकाना मण्डलानि “मौक्तिकं मुक्ता मुक्ताफलम्" इति हैमः / धात्री आमलकी तस्याः फलानोव विभान्ति शोभमानान्यभूवन , गजमुक्तानां रक्ते पातेन धात्रीफलवर्णतेति भावः / तत्र युद्धे गजाः समौक्तिका आसन्निति सैन्यसंभारातिशय उक्तः / उपमालङ्कारः // 154 / / જે લોહિત સમુદ્રમાં વીર વડે કપાયેલા ગજરાજના મસ્તકથી પડતા અત્યંત ઉજજવળ અને ધાત્રીકલ જેવા મુક્તાફળના સમૂહે બહુ જ શોભતા હતા. 154 नक्रन्ति गात्राणि मतङ्गजानां, यस्मिन् भटैः खङ्गविदारितानाम् / कूर्मन्ति विच्छिन्नचतुष्क्रमाणां, यस्मिंश्च तान्येव सुरङ्गमाणाम् // 15 //
SR No.004313
Book TitleShantinath Mahakavyam Part 02
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherNemidarshan Gyanshala
Publication Year1966
Total Pages288
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy