SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ बा. विजयदर्शनसूरीश्वररचितवृत्तिसहिते पञ्चमः सर्गः। [ 47 अथ रणभूमिस्थितिमाहसैन्यद्वयान्तर्गतमृत्यवर्ग-यष्ट्यग्रगाढाहतवाद्यनादैः / पाऽपि वाचं प्रणिगद्यमानां, कस्यापि शुश्राव न कश्चनापि // 148 / / सैन्यद्वयस्य श्रीविजयाशनिघोषयोः सैन्ययोः अन्तर्गतेन भृत्यवर्गेण वादकेन यष्टयग्रेण गाढं यथा स्यात्तथा आहतानां वादितानां वाद्यानां नादैः हेतुभिः, पाश्र्वेऽतिसमीपेऽपि प्रणिगद्यमानामुच्चार्यमाणां कस्यापि जनस्य वाचं कश्चनापि जनः न शुश्राव / वाद्यशब्दैजनवाक् तिरोहितेति वाद्यशब्दातिशय उक्तः // 14 // બને સેનાઓની વચ્ચે રહેલા સુભટની લાકડીના અગ્રભાગથી જોરથી આઘાત પામેલા વાજિંત્રોના ઘોષથી કોઈ પણ પાસે રહેલા, પરસ્પર બેલાતી વાણું સાંભળી શકતા ન હતા. ૧૪લા रङ्गत्तुरङ्गक्षुरसन्निपात-क्षुण्णक्षमामण्डल रेणपूरैः / आच्छादिते व्योमनि पुष्पदन्तौ, शङ्क पलाय्यैव गतौ तदा तौ // 150 // रङ्गतां धावतां तुरङ्गानामश्वानां क्षुराणां खुराणां सन्निपातेनाघातेन क्षुण्णस्य संचूर्णितस्य क्षमामण्डलस्य पृथिव्याः रेणूनां धूलीनां पूरैः उत्थानप्रवाहैः कृत्वा, व्योमनि आकाशे आच्छादिते सति, तदा तस्मिन्नवसरे, तौ तेजःप्रसिद्धौ, पुष्पदन्तौ सूर्याचन्द्रमसौ “एकयोक्त्या पुष्पदन्तौ दिवाकरनिशाकरा" वित्यमरः / पलाय्यैव भयात्प्रध्वस्यैव गतौ तिरोहितौ शङ्के उत्प्रेक्षे / अश्वखुरोत्क्षिप्तरजसा मेघेनेव सूर्यचन्द्रौ तिरोहितावित्यर्थः // 150 // તે વખતે કૂદતા એવા ઘડાઓની ખરી પડવાથી ખોદાયેલી પૃથ્વીની ધૂળ ઉડવાથી આકાશ આરછાદિત થયે છતે એમ લાગતું હતું કે સૂર્ય અને ચન્દ્ર જાણે નાશીને ક્યાંક જતા રહ્યા છે. ૧૫ના अश्वारोत्खातरजःप्रचारैः, स्फारेऽन्धकारे यदि चन्द्रहासैः / ओजस्विनां पाणिषु विस्फुरद्भिः, प्रापे तदानीमपि सान्वयत्वम् // 151 // . अश्वानां क्षुरैः उत्खातानामुत्क्षिप्तानां रजसा प्रचारैः व्यापनैः कृत्वा, स्फारे गाढेऽन्धकारे, यदिः चार्थः, ओजस्विनां बलवतां पाणिषु करेषु विस्फुरद्भिः भासमानैः चन्द्रहासैरसिभिः, तदानीं गाढान्धकारकालेऽपि अन्वयेन चन्द्र स्य हास इत्यर्थेन सह सान्वयः तस्य भावस्तत्त्वम्, प्रापे “हसः हासो हास्यं" चेत्यमरः / अन्धकारेऽपि विस्फुरणं तस्य चन्द्रस्य हासत्वादेवेति भावः ( हास्यरूपमेवेति भावः) // 15 // જોકે તે સમયે જ ઘોડાઓની ખરીઓથી ઉખડેલી ધૂળ ફેલાવાથી વિશાળ અંધકારમાં બળવાન યોદ્ધાઓના હાથમાં ચળકતા ચંદ્રહાસ (તલવાર) એ (ચંદને હાસ એવું) યથાર્થપણાને પામ્યું 151 सेनाचराणामवलेपभाजा-मेतादृशोऽजायत सम्परायः / रक्तोदसिन्धुः प्रचचार यस्मा-दुत्साहचन्द्रोदयवर्धमानः // 152 //
SR No.004313
Book TitleShantinath Mahakavyam Part 02
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherNemidarshan Gyanshala
Publication Year1966
Total Pages288
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy