________________ श्रीशान्तिनाथमहाकाव्ये અસ્થાને તે ઔચિત્ય વિસ્તારાય તો શું તેને પોતાને અભાવ ન કરી નાખે ? ૧૩૮મા यदप्युक्तं जननीवाभ्यर्थे ति तदप्यनुचितमित्याहशक्त्या समानीय निवास्यते या, सा माननीया जननीव किं स्यात ? बीडा वधे स्याद्विहिते छलेन, लक्ष्म्यां हृतायां न पुनः स्त्रियां वा // 140 // या स्त्री शक्त्या बलपूर्वकं समानीय, निवास्यते गृहे रक्ष्यते, सा पराक्रमप्राप्ता किमिति प्रश्ने, जननीव माननीया स्यात् ? नेत्यर्थः नहि जननी पराक्रमात्प्राप्यते इति भावः / यदप्युक्तं ब्रीडां प्रकुर्वन्तीति तदपि न सम्यगित्याह--ब्रीडा, छलेन विहिते कृते वघे हनने स्यात् पराक्रमहीन संभावनासंभवादिति भावः / पुनः किन्तु, लक्ष्म्यां संपत्ती, स्त्रियां वा हृतायां न व्रीडेत्यनेनान्वयः। तत्र पराक्रमोपयोगादिति भावः // 140 // જે શક્તિ-બળથી લાવીને ઘરમાં વસાવાય તે માતાની જેમ માન્ય કેમ હેય? ન હોય. લજજા તે છળથી વધ કરવામાં થાય, લક્ષ્મીનું કે સ્ત્રીનું હરણ કરવામાં ન જ થાય. 140 यदप्युक्तं सारैर्वासोभिः समर्पणीयेति तदति फल्गु इत्याहउद्धाररूपेण समाहृतं य-द्विश्राण्यते तत्परमेव नीत्वा / नवोत्तमणः स च मे न. चाहं, तस्याधमणेः कथमपेये तत् / / 141 / / यद् द्रव्यादि उद्धाररूपेण, सम्प्रति नीत्वा पश्चादहमेतदुद्धरिष्यामि प्रतिदास्यामि इत्येवंरूपेण समाहृतमानीतम् / तदेव परं केवलं नीत्वा गृहीत्वा विश्राण्यते प्रतिदीयते तच्चात्र नास्तीत्याह-स श्रीविजयश्च मे मम उत्तमर्णः ऋणदाता नैव, अहं च तस्य अवमर्गः ऋगग्रहीता न, "अधमर्णो प्राहकस्स्यादुत्तमर्णस्तु दायकः” इति हैमः / तत्तदा कथमर्पये प्रतिददामि / एवं च तव समर्पणोक्तिर्न युक्तेति भावः // 141 / / * ઉધાર તરીકે જે લેવાયું હોય તે જ લઇને બીજાને ફરી અપાય છે તે. (શ્રીવિજય) મારો લેણદાર નથી અને હું તેને દેણદાર નથી, તે શી રીતે સુતારાને આપુ? 141 यदप्युक्तं मन्तुर्न आदीयते इति तदप्यस्थाने इत्याहमन्तुं स एव क्षमतेऽनुमन्तुं, द्वेधापि यस्यास्ति बलं विशालम् / आगत्य पुर्याः स बहिर्भवन्तं, प्रस्थापयन् स्वस्य बलं न वक्ति // 142 // मन्तुमपराध स एव नान्यः, अनुमन्तुं ग्रहीतुं क्षमते शक्नोति / यस्य राज्ञः, द्विधा प्रकारद्रयेनापि. बलं सैन्यं स्वशक्तिश्चेति प्रकारद्वयं विशालम अस्ति / स तव प्रभः पर्याः बहिः आगत्य भवन्तं दूतं प्रस्थापयन् प्रेषयन् / स्वस्य बलं सामर्थ्य सैन्यं वा न वक्ति / एतावतैव तस्य बलहीनत्वं प्रकटितं भवति / अन्यथा तदपि ब्रूयादिति भावः // 142 //