________________ आ. विजयदर्शनसूरीश्वररचितवृत्तिसहिते पञ्चमः सर्गः / [ 43 यवपि सन्तः दृशापि परस्त्रियं न स्पृशन्तीत्युक्तम्, तदपि न युक्तमित्याह अन्धा न पश्यन्ति परस्त्रियं चे-ते किं प्रशंसां सुधियां श्रयन्ते / यद्येवमेषां चतुरिन्द्रियाणां, निन्यं कथं स्याद्विकलेन्द्रियत्वम् // 137 // अन्धा दृष्टिहीनाश्चेद्यदि, परस्त्रियं न पश्यन्ति, तदा अन्धाः किमिति प्रश्ने, सुधियां बुद्धिमतां प्रशंसां श्रयन्ते गच्छन्ति ? न श्रयन्ते इत्यर्थः / एवं च परस्त्र्यदर्शनं न प्रशंसामूलम् न वा सत्त्वप्रयोजकमिति भावः / ननु प्रशंसां न श्रयन्ते इति कुत इति चेत् तत्राह-यद्येवं विकलेन्द्रियाः प्रशंसा श्रयन्ते चेत्तर्हि, निन्द्यं कथं स्यात् ? न स्यादित्यर्थः / चतुरिन्द्रिया हि विकलेन्द्रियत्वेनापकृष्टा गण्यन्ते, एवं चान्धस्यापि विकलेन्द्रियत्वेन निन्दैव न तु रूपदर्शनकृता प्रशंसा तस्य क्वापीति परस्त्रियं न पश्यन्तीति न सत्त्वप्रयोजक, नवा परस्त्रियाः दर्शने स्पर्शने निन्दा इति भावः // 137 // એ આંધળાઓ પરસ્ત્રીને જોતા નથી, તે ડાહ્યા માણસની પ્રશંસા મેળવે છે? નહીં જ. જે એમ જ હેય તે પેલા ચઉરિન્દ્રિયનું વિકલેન્દ્રિયપણે કેમ વગોવાય? ૧૩ળા ननु भवत्येवम्, पापं तु स्यादेवेति चेत्तत्राहनान्यस्त्रियं विक्रममन्तरेण, हत्तुं नरः क्लीव इव क्षमेत / नो विक्रमः पुण्यमृते कथं तत्, पापाय तस्या हरणं ब्रवीषि // 138 // नरः विक्रममन्तरेण विना, अन्यस्य स्त्रियं हन्तुं क्लीबो नपुंसक इव न क्षमेत शक्नुयात् , विक्रमः पराक्रमः, पुण्यम् ऋते विना नो भवतीति शेषः / तत्तस्माद्धेतोः, कथं तस्या परस्त्रिया हरणं पापाय ? इति ब्रवीषि, प्रत्युत विक्रमान्यथानुपपत्या पुण्यस्यैव तत्रानुमानमिति भावः // 138 / / પરસ્ત્રીને પરાક્રમ સિવાય હરણ કરવાને માણસ નપુંસકની જેમ જ સમર્થ થઈ શકે નહીં અને પરાક્રમ તે પુણ્ય વગર હાય જ નહીં. તે શી રીતે સુતારાનું હરણ પાપ માટે કહે છે. 138 यदप्युक्तं नैवौचितिमञ्चतीति तदपि निःसारमित्याहस्त्रीरत्नमेतादृशमद्भतं चे-दानेतुमौचित्यविपञ्चना न / अन्यत्र सा क्वापि वितायमाना, स्वाभावमेव प्रथयेन्न किं वा ? // 138 // एतादृशमद्भुतमलौकिककल्पम्, स्त्रीषु रत्नमिव तत् चेद्यदि आनेतुं हर्तुम् , औचित्यस्य विपब्चना विवर्णना विचारणा न, स्यादिति शेषः / वा तदा अन्यत्र साधारणकार्य क्वापि, वितायमाना विस्तार्यमाणा विधीयमानेति यावत् सा स्वस्य अभावम् अनौचित्यमेव, न प्रथयेत् न प्रकटयेत् किम् ? अपि तु प्रकटयेदेव / यद्यपूर्वस्य हरणे नौचित्यम् , तर्हि साधारणे कार्येऽपि अनौचित्यमेवाञ्चति इति भावः / / 136 / / જો આવું અદ્ભુત સ્ત્રીરત્ન હેય તે ઔચિત્યનો વિસ્તાર વિચાર થાય નહિ. કયાંક અન્યત્ર