________________ 42 ] श्री शान्तिनाथमहाकाव्ये न / यदि हि मन्त्रिणो हितक्क्तीर, तदा राजा तदुक्तं न श्रुतवानिति मन्ये, नान्यथात्रागच्छेत् / एवं च स राजा न, ते मन्त्रिणश्च न, राजा हि मन्त्रिमन्त्रानुमन्ता भवति, स चेन्न, कुतो मन्त्रिषु मन्त्रित्वमिति भावः / ननु कदाचिन्मन्त्रिमन्त्रापेक्षया बुद्धिमतो राज्ञो मन्त्रस्य सारवत्त्वं संभाव्यते, एवं च नैतावता तयो राजमन्त्रिभावोऽपैतीति चेत् तत्राह-तौ निरपेक्षौ राजमन्त्रिणौ, अन्योन्यं वैरस्य विद्वेषस्यानुगमात् प्राप्तेः, स्वतोऽपि स्वत एव, राज्यस्य क्षयाय नाशाय संभवतः कल्पतः, मन्त्रिमन्त्राग्रहणे हि मन्त्रिणो राज्ञि / (राज्ञो) विरक्तिः, ततश्च तयोविरोधः, ततश्व राज्यनाशः, भेदसंभावान्नृपान्तरेणेति मूलस्यैवाभावात्कस्य राजा, कस्य मन्त्री वेति भावः // 134 // જે રાજા મંત્રીની વાત માનતો નથી, તે રાજા નથી કુરાજા છે. રાજાને સમજાવે નહિ) તે મંત્રી નથી, કુમંત્રી છે. કેમકે તે બન્ને પોતે જ પરસ્પર વિરભાવ પામવાથી રાજ્યને નાશ કરનારા થઈ જાય છે. 134o. ताभ्यामनालोच्य भवादृशोऽत्र, प्रस्थापितो दृत्यविधाऽनभिज्ञः / वक्तुं न यो वेद पुरः प्रभूणां, तस्योचितं दृत्यमिदं किमु स्यात् // 135 // ताभ्यां राजमन्त्रिभ्याम् , अनालोच्याविचार्य, भवादृशः, दूतस्य कर्म दूत्यं तस्य विधायाः प्रकारस्यानभिज्ञः, अत्र प्रस्थापितः प्रेषितः, यस्त्वं प्रभूणां पुरोऽग्रे वक्तुं न वेद जानाति, तस्य दूत्यं किमु उचितं स्यात् ? नेत्यर्थः / यदि राजमन्त्रिणौ एकमन्त्रौ स्निग्धौ च, तथापि तव दूतव्यवहारानभिज्ञस्य दूत्ये नियुक्तिस्तयोरल्पज्ञत्वमुद्भावयत्येवेति भावः // 135 // તે બન્ને (રાજા અને મંત્રી) એ વિચાર્યા વગર જ દૂતકર્મમાં અ૫હુ એ તારા જેવો દૂત અહીં મોકલાવ્યો છે. જેને રાજાઓની આગળ બોલતા આવડતું નથી, શું તેને આ દૂતપણું ઉચિત હેય ? ન જ હેય. ૧૩પ ननु मा भूतां बुद्धिमन्तौ तौ किन्तु पराक्रमिणौ इति रिपुसाधनसमर्थों ततश्च तव कल्याणं नेक्षे इति चेत्तत्राहबुद्धथा विनैकेन पराक्रमेण, जेतुन शक्या रिपवः कथञ्चित् / गर्जन्तमम्भोदमुपर्यवेक्ष्य, स्वं किं न हन्याच्छरभो विबुद्धिः॥१३६॥ बुद्धया विना एकेनासहायेन पराक्रमेण, रिपवः कथञ्चिदपि, जेतुं न शक्याः / तत्रोदाहरणमाह-विबुद्धिः बुद्धिहीनः शरभः अष्टापदः, 'शरभेऽष्टापदोऽपि' इति शिलोञ्छः / उपरि गजन्तम् अम्भोदं मेघमवेक्ष्य, स्वमात्मानं न हन्यात् हन्ति किम् ? अवश्यं हन्तीत्यर्थः / शरभो हि मेघं प्रति अभिमानात्कूर्दन , खाते निपत्य म्रियते / उपरि मेघं प्रति कूर्दनं हि तस्य अज्ञताविजृम्भितम्, नान्यथा कूदत्, एवं च तव राजमन्त्रि णोः पराक्रमसंभवेऽपि विफल एव प्रयासो भवितेति भावः / दृष्टान्तालङ्कारः // 136 / / - બુદ્ધિ વિના કેવલ પરાક્રમથી કોઈ પણ રીતે શત્રુઓ જીતી શકાતા નથી. બુદ્ધિરહિત-મૂખે શરભા ઉપર ગરજતા વાદળાને જોઈ (કુદ માર) પિતાને જ હણતા નથી શું? હણે જ છે. 136