________________ 4. ] श्री शान्तिनाथमहाकाव्ये तु सहसा आक्रमणं तु न वीरोचिंतमिति दूतेन बोधनवैफल्ये युद्धार्थ सन्जस्तिष्ठत्येवेति क्रमशः सामदाम्नोः प्रयोगः कृतः // 128 / / (સજન) રમતમાં પણ છળથી કઈ કામ કરતાં લજા કરે છે, પામે છે. સર્વ સૈન્ય સમૂહથી યુક્ત આ સતારાને પતિ નીતિને આશ્રિને (નગરથી) બાહર રહેલ છે. 128 तस्मै तदेतां स्वयमेव गत्वा, सत्त्वावलीढाय समर्पयस्व / यद्वा समाचर्य विकार्यचर्यां, नादीयते मन्तुरुपागतस्य // 129 / / तत्तस्मात्सदाचारानुरोधात्, स्वयमेव गत्वा, नत्वन्येन, विनयहानेरिति भावः / तस्मै सत्त्वेन तेजसा बलेन च अवलीढाय सम्पन्नाय, एतां सुतारां समर्पयस्व, यद्वा अन्यथा चेत्, विकार्या निन्दनीयां चर्यामाचरणं परस्त्रीहरणरूपं समाचर्य विधाय उपागतस्य समीपप्राप्तस्य शत्रोः राज्ञः, तवमन्तुः क्रोधोऽपराधश्च "मन्तुः भवेदागोऽपराधयोः" इति कोशः / न नैव, आदीयते ग्रहीतुं योग्यः असमर्पणे हि स कुप्येत् स च न तव कल्याणायेति भेदप्रयोगः // 129 / / તે મહા સત્ત્વશાળી એવા તેને તમે પોતે જઈ આ સુતારાને સોંપી દે કેમકે ખોટું કામ કરી પાસે આવેલા અતિથિને અપરાધ કરાય નહિ. 129 मानं यदि स्वीकुरुषे कदाचि-त्वं चाटुकारैरुपलालितः सन् / द्रष्टा कबन्धं यदि वैकबन्ध, नूनं तदा तद्भटचन्द्रहासैः // 130 // यदि कदाचित्त्वं चाटुकारी मिथ्याप्रियभाषणादिना स्वार्थसाधनपरायणैर्मुखैः उपलालितः विमोहितः सन् , मानं गर्व स्वीकुरुषे, गर्वात्त न प्रयच्छेः, तदा तस्य श्रीविजयस्य भटानां योधानां खङ्गे तु निविंशचन्द्रहासासिरिष्टयः' इत्यमरोक्तः चन्द्रहासैरसिभिः कृत्वा, कवन्धं शिरोहीनशरीरम् , 'कबन्धोऽस्त्री क्रियायुक्तमपमूर्धकलेवरमि' त्यमरः / यदि वा एकमद्वितोयं बन्धं बन्धनं द्रष्टा द्रक्ष्यसि, मरिष्यसि निगडितो वा भविष्यसि, न चान्या गतिरिति दण्डप्रयोगः // 130 / / જે કદી તમે ખુશામદિઆની વાતમાં પડીને અભિમાન કરશે તે નકકી તે શ્રીવિજયના સુભટના તલવારથી પિતાના માથા રહિત ધડને અથવા દઢ બંધનને જોશે. ૧૩ના इत्थं सनिर्बन्धमुदीर्य दतो, जो समालम्ब्य स यावदाऽऽस्ते / तावज्जगादाशनिघोषभूपो, भ्रूभङ्गभीमं विदधत्क्रुधाऽऽस्यम् // 131 / / इत्यमुक्तप्रकारेण, सनिबन्धं 'निर्बन्धोऽभिनिवेशः स्या' दिति हैमोक्तेः साभिनिवेशं साग्रह सयुक्तिकम् , उदीर्योक्त्वा, यावत्, स दूतः, 'तूष्णीमर्थे जोषमि' त्यमरोक्तेः जोषं मौनं समालम्ब्य, आस्ते, तावद् अशनिघोषभूपः, क्रुधा आस्यं मुखं भ्रवोभङ्गेन कौटिल्येन भीमं भयानकं विदधत्, जगादोवाच // 13 //