________________ आ. विजयदर्शसूरीश्वररचितवृत्तिसहिते पञ्चमः सर्गः / . [ 39 દૂત તે ચંપાપુરી નગરના સિંહદ્વાર પર પહોંચી દ્વારપાળ વડે રાજાને વિજ્ઞાપન પૂર્વક પ્રવેશ કરાયેલો હતો સભાની વચ્ચે આમ બોલ્યા. ૧રપા दूतोक्तिमाहअन्यस्त्रियं नैव दृशापि सन्तः, सत्यं स्पृशन्ति प्रतिपन्नपुण्याः / तस्याः पुनः संहरणं प्रसह्य, स्वच्छन्दपापाहरणं न किं तत् // 126 / / प्रतिपन्नं स्वीकृतं प्राप्तं वा पुण्यं यैस्तादृशाः पुण्यवन्तस्सन्तः सज्जनाः सत्यमेव, अन्यस्त्रियं घशा नेत्रेणापि अपिना करादिना पुनः किं वक्तव्यमिति सूचितम्, न स्पृशन्ति / पुनः पक्षान्तरे तस्याः अन्यस्त्रियाः प्रसह्य हठात् संहरणमपहरणं किं तत् , स्वच्छन्दं स्वैरतया पापस्याहरणं आहरणमायोजनं उपादानं सञ्चयः न ? अपि त्ववश्यमेव / यत्र स्पर्श पापम्. तत्र प्रसह्य हरणे किमु वक्तव्यमिति भावः / / 126 // પુણ્યશાળી એવા સજ્જને પરસ્ત્રીને આંખથી પણ સ્પર્શતા નથી. નેત્રથી જોતાં પણ નથી. આ વાત સત્ય છે. છતાં તેનું બળ પૂર્વક હરણ તે સ્વછંદ રીતે થાય તો પાપ સંચય થતું નથી શું ? 126 एतां समानेतुमहो! सुतारा, नैवोचितीमञ्चति तेऽपि चेतः। आनीय यद्वा जननीव सारै- सोभिरभ्यर्च्य समर्पणीया // 127 // अहो इति खेदे, ते तव अपि, चेतः मनः, एतां सुतारां समानेतुम् / औचितीमौचित्यं नैवाञ्चति मन्यते, त्वमपि मनसा अनुचितमेवैतत्कर्म मन्यसे इति अनुकूलकरणोक्तिः / ननु सा आनीता, अधुना किं कर्त्तव्यमिति चेत्तत्राह-आनीय आनयनानन्तरं जननी मातेव, न तु तत्र साधारणस्त्रीबुद्धिः कर्त्तव्या 'मातृवत्परदारेस्वित्युक्ते' रिति भावः / सारैः श्रेष्ठैर्वासोभिः वसनाभरणादिभिः, अभ्यर्च्य सत्कृत्य, समर्पणीया भर्ने इति शेषः // 127 // ... ખરેખર તમારું હદય પણ આ સુતારાને લઈ આવવામાં ઔચિત્ય માનતું હશે નહિ, માટે આવ્યા પછી માતાની જેમ ઉત્તમ વસ્ત્રોથી સત્કાર કરી તેના પતિને) સોંપી દેવી યોગ્ય છે. 12 व्रीडां प्रकुर्वन्ति विनिर्मिमाणाः, क्रीडावशात्कर्म परं छलेन / अस्याः पतिः सर्ववलौषशाली, नीति समालम्ब्य बहिः स्थितोऽस्ति // 128 // परं तथा, क्रीडावशात्कुतुकात् , छलेन कपटेन प्रतारणादिना, कर्म क्रियां, विनिर्मिमाणाः कुर्वाणाः ब्रीडां लज्जा प्रकुर्वन्ति, स्वमनसि मयेत्थमनुचितमाचरितमिति लज्जन्ते इत्यर्थः / ननु ब्रीडायां सत्यामपि सम्प्रति नास्त्युपायः, यतोऽस्याः पतिः मृत इति कस्मै प्रदेयैषा / किश्च यदि जीवितस्तर्हि किं न स्वगौरवरक्षणाय मत्त एनामाच्छिनत्तीति चेत्तत्राहसर्वेषां बलानां हस्त्यश्वरथपादातीनामोघेन सार्थन शालते शोभते इत्येवंशील, सर्वबलौघशालो, अस्याः सुतारायाः पतिः श्रीविजयः, नीतिं वीरनोतिं समालम्ब्य, बहिः त्वन्नसराबहिः स्थितोऽस्ति, एवं च न स मृतः, न चापि वव दूरगमनप्रयासः इति दित्सायां ते सुलभोऽवसरः / पक्षान्तरे तु