________________ 34 ] श्रीशान्तिनाथमहाकाम्ये सम्बोधकरं वृषे धर्मे सावधानमप्रमादिनं विमिश्र संभिन्नं श्रोताऽमिधानं संभिन्नश्रोतनामानं परं द्वितीयं पुत्रं अर्थान्मम, दीपशिखं नाम विद्धि, ततस्तदनन्तरम् नौ द्वावपि पितापुत्रौ अत्रापि नौशब्दस्य पूर्ववत्प्रयोगः समर्थनीयः / तीर्थानि नन्तुं वन्दितुं प्रयतौ प्रयत्नशीलौ सन्तौ प्रयान्तौ गच्छन्ती, अस्याकर्णयामासिवेत्यप्रेतनेनान्वयः // 10 // हा प्राणनाथ ! प्रसरत्प्रताप ! श्रीमत्रिपृष्ठप्रभव ! प्रजेश ! हा शौर्यवर्यामितधामनाम-सौन्दर्यविद्योतितवंश्यकीतें ! // 18 // त्रायध्वमस्मादिमिकां सुतारां, विद्याधरादन्यकलत्रलोलात् / आकर्णयामासिव चेति वाच-मुच्चैस्तरां व्योम विगाहमानाम् / / 109 // हा प्राणनाथ ! जीवितेश ! प्रसरन् विस्तृतः प्राप्नुवन् प्रभावः प्रतापो यस्य तदामन्त्रणे, श्रीमत्रिपृष्टात् प्रभवः उत्पत्तिः यस्य तदामन्त्रणे, हा प्रजेश ! राजन् ! हा शौर्येण पराक्रमेण वयं ! श्रेष्ठ ! अमितं धाम तेजो यस्य तन्नाम्नः चन्द्रस्य सौन्दर्यमिव सौन्दर्य यस्य तत्संबोधने / विद्योतिता प्रकाशिता वंश्यानां वंशोद्भवानां कीर्तिर्येन तदामन्त्रणे / अन्यस्य कलो स्त्रियां लोलाल्लम्पटात् “लोलुपो लोलुभो लीलो लम्पटो लालसोऽपि चे" त्यमरः / अस्माद्विद्याधरात्, इमिकामिमा स्वप्रियां सुतारा त्रायध्वं रक्षत इतीत्थम् उच्चैःस्वरां तारस्वराम् , अत एव, व्योमाकाशं विगाहमाना पूर्यमाणां वाचम् आकर्णयामासिवाश्रीष्व, तीर्थ प्रयान्ताविति सम्बभ्यते // 108 / 10 / / તમને સચેતન કરનાર અને ધર્મક્રિયામાં સાવધાન એવા મને મિશ્રશ્રોત નામને જાણે. બીજે દીપશિખ નામને મારો પુત્ર છે. અને તીર્થનું વંદન કરવા નિયમ પૂર્વક જતાં અમે બને એ હા પ્રાણનાથ ! વિશાલ પ્રતાપી ત્રિપુછના પત્ર પ્રજાના સ્વામી શ્રેષ્ઠ શેય અપરિમિત તેજ નામ અને સૌંદર્યથી કલકીતિને પ્રકાશિત કરનાર ! આ સુતારાને પરસ્ત્રીલંપટ એવા આ વિદ્યાધરથી બચાવે, આવી આકાશમાં ફેલાતી ઉંચા સ્વરની વાણી સાંભળી. 10-108-109 ___ अथ तदनन्तरवृत्तमाहअस्मत्प्रभोर्जामिरनेन रूपा-ऽऽक्षिप्ताशयेन ह्रियते स्म नूनम् / व्यावर्चयावस्तदिमामिमं च, हत्वा दुराचारमपेतसारम् // 110 // अनेन, रूपेण आक्षिप्तो हृतः आशयः भावो यस्य तेन तादृशेन विद्याधरेण "मतभावाशया अपि" इति हैमः। अस्मत्प्रभोः श्रीअमिततेजसः जामिः भगिनी नूनमवश्यं ह्रियते स्म, नान्यथा सुतारायाः ईदृशं वचनं संभवतोति भावः / तत्तस्मात् , अपेतः दूरीभूतः सारः बलं यतस्तं निबलम् / 'सारो बले स्थिरांशे च' इत्यमरः / एतेन हननसौकर्य स्वस्य च ततोऽधिकबलवत्त्वमुक्तम् / अथ च दुराचारं परस्त्रीहरणादिति भावः / इमं विद्याधरं हत्वा, इमां सुतारां व्यावतयावः पश्चानिवतयावः // 110 // चित्ते विमृश्येति रुषारुणौ तौ, यावत्प्रवृत्तौ सह तेन योद्धम् / निस्त्रिशवसेन दुराशयेन, निस्त्रिंशमोदाय शितं करेण // 111 //