________________ बा. विजयदर्शनसूरीश्वररचितवृत्तिसहिते पञ्चमः सर्गः / [33 जज्ज्वाल यावत्स चिताकृशानु-तिन दारूपचितः प्रणीतः। विद्याधरद्वन्द्वमुपाजिहीत, व्योम्नापि तावत्सहसा महिम्ना // 104 // यावत्स चितायाः कृशानुरग्निः, वातेन वायुना, दारुणि काष्ठे, उपचितः वृद्धः, प्रणोतः कृतः सन् जज्वाल, तावत्, महिम्ना प्रभावेण, व्योम्ना आकाशेन, सहसा झटित्येव विद्याधरद्वन्द्वं विद्या. धरयुगलम् उपाजिहीताऽगमताम् // 104 / / જેટલામાં લગાડાએલે અને લાકડાથી વૃદ્ધિને પામેલો તે ચિતાને અગ્નિ પવન લાગવાથી જવાળા વાળો થયો તેટલામાં એચિતા બે વિદ્યારે પોતાના પ્રભાવે આકાશ માગે આવી પહોંચ્યા. 104 अथ तयोः कृत्यमाहमन्त्रेण पावित्र्यमितेर्जलोधे-रेकोऽभ्यषिश्चचितिचित्रभानुम् / विद्या प्रतारिण्यपि साट्टहास्यं, निर्माय तत्कालमगात्प्रणश्य // 10 // एकः तयोरन्यतरः विद्याधरः, मन्त्रेण पावित्र्यमितैः पवित्रैः जलौघैः जलधाराभिः चिते. चितायाः चित्रभानुमग्निम् अभ्यषिश्चत् , सा प्रतारिणी विद्याऽपि अट्टहासं निर्माय कृत्वा, तत्कालं प्रणश्य अन्तर्धाय अगात् / अभिमन्त्रितजलसेकेन प्रतारिणी विद्या स्वरूपं प्राप्य ततोऽगादित्यर्थः // 105 // એક વિદ્યાધર મંત્રથી પવિત્ર કરાયેલા જળથી ચિતાની આગને ઠારવા લાગ્યા. પ્રતારણી વિદ્યા પણ તે જ વખતે અટ્ટહાસ્ય કરી નાસી ગઈ. ૧૦પા ___ अथ श्रीविजयस्य कौतुकाविज्ञासामाहएतत्किमाकस्मिकमेव नात-मित्यभ्यधात्तावपि भूमिपालः / व्याजहतुर्व्याजविवर्जितौ तौ, पत्ती नरेन्द्रामिततेजसो नौ // 106 // . भूमिपालः श्रीविजयः तौ द्वावपि एतत्किम् आकस्मिकम् अहेतुकं सहसा एव वा जातमभूत् , इत्येव - मभ्यधात्पप्रच्छ तौ द्वौ विद्याधरौ व्याजेन कपटेन 'कपटोऽस्त्री व्याजदम्भो-पधयाश्छद्मकैतवे' इत्यमरः / विवर्जितौ रहितौ, व्याजहतुरूचतुः, किमित्याह-नरेन्द्रस्य, यद्वा नरेन्द्रेति सम्बोधनम् , अमिततेजसस्तदाख्यस्य राज्ञः, नौ आवाम , पत्ती भृत्यौ, स्व इति शेषः / अत्र नाविति विभक्तिप्रतिरूकमव्ययम् // 106 // (ત્યારે) રાજાએ તે બન્નેને પૂછયું કે અકસ્માત આ શું થઈ ગયું? નિષ્કપટ એવા તે બન્ને બોલ્યા કે અમે બન્ને રાજ અમિતતેજના પત્તી-ભ્રત્ય–માણસ છીએ. 106 शेष कथनीयं वक्ति. मां विद्धि सम्बोधकरं विमिश्र, श्रोताभिधानं पुषसावधानम् / . पुत्रं परं दीपशिखं ततो नौ, तीर्थानि नन्तुं प्रयतौ प्रयान्तौ // 17 //