________________ 32 ] भोलान्तिनाथमहाकाव्ये हा इति शोके उपालम्भे च, अमुष्य हन्तुः प्राणापहर्तुः यमस्य, श्राद्धदेवपदवाच्यत्वं हासाभिव्यञ्जकम हासजनकं किं न, अपि तु तद्धास्यजनकमेव 'हासो हास्यश्च' इत्यमरः श्रद्धायुक्ताः श्राद्धाः तेषां देवः कथं नाम हन्ता भवितुमर्हति, तथा च हन्तरि तथा प्रयोगः परिहासायैवेति भावः। ___ ननु तर्हि कः श्राद्धदेव इत्यत आह-स श्राद्धदेवः, अत्र लोके प्रथितः प्रसिद्धः कथितः, यः सर्वत्र उच्चनीच्चादिनिर्विशेषेण कारुण्यम् करुणाम् , “कारुण्यं करुणा घृणे"त्यमरः / उपादिशत् , यस्तु स्वयमेव हिंसकः, दूरे तेन कारुण्योपदेश इति तस्य श्राद्धदेवत्वं हास्यायैवेति // 101 / / હા હિંસા કરનાર-મારી નાંખનાર આ યમરાજનું શ્રાદ્ધદેવ, શ્રદ્ધાવાળાનો દેવ એવું નામ ઉપહાસ પ્રગટ કરનારૂં નથી શું ? છે જ. કેમકે આ જગતમાં તે શ્રાદ્ધદેવ પ્રસિદ્ધ છે જેણે સર્વત્ર કરુણાને ઉપદેશ કર્યો છે. 101 पश्यद्विना पण्डकपण्डितान् कः, को वा स्पृशेन्मामपहाय हा ! त्वाम् / यत्कुक्कुटाहिः प्रययौ विदश्य, ज्यायान्विधेः प्रक्रम एव सोऽयम् // 102 // त्वा सुताराम् , पण्डका अन्तःपुरमकाः क्लीवाः, “पण्डः षण्ढः क्लीबो नपुंसकम्” इति हैमः, पण्डिताश्च तान्विना, अन्यः, कः पश्येत् ? न कोऽपीत्यथः, अन्तःपुरे एताभ्यां द्वाभ्यामतिरिक्तस्य गमननिषेधात् , तव च बहिर्गमनाभावात् कुलीनत्वाच्चेति भावः। एतेन शीलसम्पन्नतोक्ता / मामपहाय को वाऽन्यः स्पृशेत् ? न कोऽपीत्यर्थः। पतिव्रतत्वादिति भावः / गुणस्मरणेन शोकस्य वेगाधिक्यादाह-हा, खेदे शोके वा / यत्कुक्कुटाहिः, विदश्य दृष्ट्वा प्रययौ, सोऽयम् / विधेर्भाग्यस्य ज्यायान् अनभिभवनीयः, प्रक्रमः प्रयत्न एव, प्रक्रमः प्रस्तावः "प्रक्रमः प्रस्तावः" इति हैमः / नान्यथैवं तादृश्यास्तव भवितुमर्हतीति भाग्यहीनोऽहमिति स्वनिर्वेदः // 102 // પંડક નપુંસક અંતઃપુરના રક્ષક અને પંડિત સિવાય તને કોણ જોઈ શકે? હા મારા સિવાય તને કોણ સ્પર્શી શકે છતાં કર્કટ સર્પ તને ડંખી જતો રહ્યો છે તે વિધાતાનું વિધાન બળવાન છે (એ જ કહેવાય). 102 संसारसर्वस्वमियं ममासी-ग्नतां विना जीवत एव लाभः / इत्थं विलप्यैव चिरं तयाऽमा, क्लृप्तां चितां प्राविशदेष भूपः // 103 // मम इयं सुतारा संसारे सर्वस्वं समग्रसम्पत् आसीत् एतां तां विना, जीवतः नैव लाभः विशेषप्राप्तिः, सर्वस्वापहारे बीजाभावात् कुतो लाभ इति भावः, इति जीवतनिवंदः, इत्थमनेन प्रकारेण, चिरं विटप्य, एष भूपः श्रीविजयः, तया सुतारया अमा सहैव क्लृप्ता रचितां चितां प्राविशत् // 10 // આ (સુતારા) મારે સંસારનું સર્વસ્વ હતું, તેના સિવાય જીવતાં મને કોઈ લાભ નથી. આમ લાંબા કાળ સુધી વિલાપ કરી તે શાખાએ તેની બનાવેલી ચિત્તામાં તેની સાથે પ્રવેશ કર્યો. 10