SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ आ. विजयदर्शनसूरीश्वररचितवृत्तिसहिते पञ्चमः सर्गः / [ 31 पद्माकरस्तडागः "पद्माकरस्तडागोऽस्त्री"त्यमरः / तस्य आस्फालनेन सम्बन्धेन नित्यं शत्येन गन्धेन चोधुरः उदग्रः सारवानिति यावत् / आरामस्यीपवनस्य समीरणः वायुस्तेन प्राप्तः चैतन्यस्य भरः येन स तादृशः स्वस्थः, स धरेन्द्रः श्रीविजयः, मुक्तं त्यक्तं धैर्य येन स अधीरः सन् , प्रियावियोगादिति भावः / इति वक्ष्यमाणप्रकारान् , विलापान शोकाक्रन्दान् चक्रे // 28 // કમળના તળાવને તરંગિત કરવાથી હંમેશા શીતળ અને સુગંધ એવા ઉપવનના પવન લાગવાથી ખૂબ દેશમાં આવી ગયેલે તે રાજ ધર્મ છોડીને પ્રમાણે વિલાપ કરવા લાગ્યો. 1985 अथ तद्विलापमेवाहमद्विक्रमः किं कुरुतां प्रतापः, कं वा समाक्रामतु मामकोऽपि / दृश्योऽभविष्यद् यदि धर्मराजो, व्यज्ञास्यत स्फूर्तिरियं तयोस्तत् // 99 // मम विक्रमः पराक्रमः किं कुरुताम् ? मामकः प्रतापः तेजः अपि वा कं पुरुष समाक्रामतु पराभवतु ननु ? प्रिया हर्तर्येव तावुपयोज्याविति चेत्तत्राह-यदि धर्मराजः अन्तकः, दृश्यः नयनगोचरः अभविष्यत्, तत्तदा, तयोः पराक्रमप्रतापयोः, इयं बुद्धिस्था, स्फूर्तिः कौशल्यं व्यज्ञास्यत् / धर्मराजस्तु न दृश्यः, अदृश्यश्च न पराक्रमप्रतापयोर्विषयः उपायान्तराभावाचागतिरहं दीन इति नितरां शोकोहीपनम् // 19 // મારે પરાક્રમ શું કરે? પ્રતાપ પણ તેણે દબાવે ? એ ધર્મરાજ-યમરાજ દેખી શકાત તે તે બનેથી પ્રસિદ્ધ પ્રભાવ જણાત. 99 नो धीरुपायुक्ततमा क्वचिन्मे, धामापि मे निष्फलतां जगाहे / यन्मय्यपि प्राणति मत्प्रियाया, वैवस्वतोऽजायत जीवितेशः॥१०॥ मे मम धीः बुद्धिः नैव; क्वचिदपि, उपयुक्तताम् उपयोगिनी जाता, मे धाम तेजः यत्नो वा अपि निष्फलतां जगाहे प्राप्तम् / “धाम रश्मौ गृहे देहे, स्थाने यत्नप्रभावयो" रिति कोशः / ननु बुद्धेस्तेजसो वाऽनुपयोगवैफल्ये कुत इति चेत्तत्राह-यद्यस्माद्धेतोः मयि प्राणति जीवत्यपि, वैवस्वतः यमः, "वैवस्वतोऽन्तक" इत्यमरः / मत्प्रियायाः, जीवितेशः जीवनशासकः, अथ च पतिः अजायत / स्वपन्याः स्वस्मिन् सत्येव पुरुषान्तरपत्नीत्वं सुदुःसहम्, तत्रापि बुद्धितेजोभ्यां न किमपि कृतम् इति महान् निर्वेदः बुद्धौ तेजसि स्वस्मिश्चेति शोकपराकाष्ठेति भावः // 100 / મારી બુદ્ધિ કયાંય પણ ઉપયોગ કરતી નથી, મને કાંઈ સમજાતું નથી, મારૂં તેજ પણ નિષ્ફળતાને પામ્યું છે. કેમ કે હું જીવતે છતાં પણ યમરાજ મારી પ્રિયાને પ્રાણેશ થઈ ગયા-પ્રાણ હરી ગયે (પિતાની પ્રિયાને બીજો પતિ બને આ વાત કોઈ પણ પતિ, બુદ્ધિ અને તેજ હોય તો કેમ સાંખી લે? ધ્વનિ.) ૧૦ના हा ! श्राद्धदेवत्वममुष्य हासा-मिव्यजकं किं न यमस्य हन्तुः। स श्राद्धदेवः प्रथितोऽत्र लोके, सर्वत्र कारुण्यमुपादिशद्यः // 101 //
SR No.004313
Book TitleShantinath Mahakavyam Part 02
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherNemidarshan Gyanshala
Publication Year1966
Total Pages288
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy