SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ आ. विजयदर्शनसूरीश्वररचितवृत्तिसहिते पञ्चमः सर्गः / [ 26 __ हरिणः अन्तरिक्षं गगनं निकषा अन्तिके आकाशे इत्यर्थः / “निकषान्तिके” इत्यमरः / फालमुत्प्लतिं ददत कृदन् कदाचित किलेत्यलीके सन्निकृष्टः समीपस्थः भत्वा तर्ण शीघ्रमेव, विप्रकृष्टः दूरस्थः एव च भवति स तादृशः हरिणः केन ग्रहीतुं शक्यः ? न केनापि इत्यर्थः / स्थिरैकप्रवृत्तिर्हि गृह्यते न तु चञ्चललक्षणपरिवर्तमानगतिरिति भावः // 11 // જે હરણ કદી પાસે થઈ તરત જ દૂર થઈ જતો હતો, આકાશમાં કૂદકો મારતા તે હરણ કોનાથી પકડી શકાય ? 91 वेगः समीरस्य च सन्निधाना-देणेऽस्ति तद्वाहनमेव यस्मात् / तेनेव धावन् वसुधाधिपालो, निन्येऽतिदूरं स जवेन तेन // 92 / / समीरस्य वायोः सन्निधानात्सान्निध्याच्च, एणे मृगे वेगः अस्ति / कुतः सान्निध्यमित्यत आह-यस्माद्धेतोः, तस्य वायोः वाहनं यानमेव, एण इति सम्बध्यते, एवं च साधुसन्निधानमिति भावः / तेनैव मृगेनैव सह धावन् स वसुधाधिपाल: श्रीविजयः तेन हरिणेन, जवेन वेगेन, शीघ्रतया वा अतिदूरं निन्ये प्रापितः / वेगेन धावतो हि तादृशेन प्रेरकेणातिदूरप्राप्तिः सुकरेति भावः॥९२॥ પવન પાસે હેવાથી મૃગ તે (પવન)નું વાહન છે. તે પવનના વેગથી જ દેડતા રાજાને તે મૃગ વેગથી ઘણે દૂર લઈ લઈ જત (પવન વેગથી દોડતા મૃગ પાછળ તેવા વેગથી દોડતા રાજા ધણુ દૂર જતા રહ્યા.) 92 ऐरावणोऽम्भोरुहिणीमिवैतां, तारां म हृत्वाऽशनिघोषकोऽपि / वेगाज्जगाम स्वपुरीमरीण-स्वौजः पराभूतसमस्तभूतः // 93 // अम्भोरुहिणी कमलिनीम् ऐरावण ऐरावत इव, एतेन हरणसुकरतोक्ता / एता तारा सुतरां हृत्वा सः अरीणमक्षीणं यत् स्वौजः स्वबलं तेन पराभूताः पराजिताः समस्ताः भूताः प्राणिनः येन स तादृशः अशनिघोषकः अपि वेगात् स्वपुरी चमरचश्वानामकां जगाम // 93 // તે પોતાના મહાન પરાક્રમથી સર્વ પ્રાણીને જીતનારો (પીડનાર) તે દુષ્ટ અશનિષ પણ પેલી. સુતારાને કમલ–નાલને હાથીની જેમ ઉપાડી (હરણ કરી) વેગથી પિતાને નગર જતો રહ્યો. 93 क्लेशाब्धिनिस्तारतरी प्रणुन्ना, विद्या प्रतारिण्यपि तेन तत्र / . रूपं सुताराभ्रमकारि कृत्वा, पूच्चक्र उच्चैः स्वरमेवमेषा // 94 // तेनाशनिघोषण तत्र ज्योतिर्वने अपि पुनरर्थे, क्लेश एव दुस्तरत्वादब्धिः / तस्मानिस्तारे पारकरणे तरी नौकातुल्या प्रतारिणी विद्या प्रणुन्ना प्रयुक्ता, सुतारायाः भ्रमं करोतीत्येवंशीलं सुतारासशमित्यर्थः / रूपं कृत्वा निर्माय, एषा कल्पितसुतारा, उच्चैः स्वरं यथास्यात्तथा, एवं वक्ष्यमाणप्रकारं पूच्चक्रे पूत्कारं कृतवान् // 14 //
SR No.004313
Book TitleShantinath Mahakavyam Part 02
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherNemidarshan Gyanshala
Publication Year1966
Total Pages288
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy