________________ 28 ] श्रीशान्तिनाथमहाकाव्ये प्रख्याता शक्तिः सामर्थ्य यस्य स तादृशः, अवनिवासवः श्रीविजयः अपि, एतां सुतारा विमुच्य त्यक्त्वा मृगमनु पृष्ठे, अधावत् ग्रहणायेति शेषः / अमुं श्रीविजयम् अनुधावन्तं वीक्ष्य, तस्य ईयया मत्सरेणेव, किमयं मत्तोऽधिकं वेगवानित्येवमिति भावः / मृगः अपि त्वरावान् वेगवान् अधावत् , यथाऽसौ मा मा ग्रहीदिति भावः // 8 // પ્રસિદ્ધ પરાક્રમી રાજા પણ આ (સુતારા)ને મુકીને મૃગ પાછળ દોડ્યો. મૃગ પણ તેને પાછળ દેડતા જોઈ તેની ઈર્ષાથી જાણે ઉતાવળથી દડવા લાગ્યો. 88 यश्चेतसाऽस्पर्शि न येन जातु, नो पाणिपद्म विधिनाऽप्यलेखि / भालेऽपि नो तं स कथं कुरङ्ग, लातुं प्रयासं कुरुतां सरङ्गम् // 89 // यः कुरङ्गः कुत्सितो रङ्गः कलङ्कादिः / अथ च यः कुरङ्गः सीतारामयोर्विरह इव सुताराश्रीविजययोः कुरनिष्टो रङ्गो विरहलक्षणो भवति येन यस्माद्वा एवंलक्षणो कुरङ्गो मृगः, “मृगः कुरङ्गः" इति हैमः / चन्द्रलान्छने वा प्रसिद्धत्वात् कुरङ्गशब्देन कलङ्कोऽभिधीयते / यद्वा यस्य अपूर्वत्वात् , तादृशस्य असम्भवाद्वा चेतसा न अस्पर्शि अकल्पि, येन हेतुना, पाणिपद्मन, नहि छत्रादिचिह्नमिव कुरङ्गचिह्न पाणौ भवतीति भावः / विधिना देवेन भाले कपालस्थलेऽपि, नो नैव, अलेखि, त्वं कुरङ्ग प्रहीष्यति इत्येवमिति भावः / तं सरङ्गं शोभनवर्ण कुरङ्ग लातुं प्रहीतुं स श्रीविजयः, कथं प्रयासं यत्नं कुरुताम् ? तत्रोद्योगो न युज्यते, कृतिसाध्यताज्ञानं विना बुद्धिमतः प्रवृत्ययोगादिति भावः // જે કુરંગ (કુત્સિત રંગ રાગ) મનથી કદી સ્પર્શ નહિ. જે કારણથી વિધાતાએ પણ કરકમલમાં (રેખ રૂપે) કે કપાળમાં (લેખરૂપે) લખ્યું નહિ તે સરંગ અશુભ આશય વાળા કુરંગ-હરણને પકડવાને તે રજા કેમ પ્રયાસ કરતો હશે? 89 एतं चतुष्पादमहं द्विपादः, प्राप्तुं कथं वा प्रभवेयमेवम् ? चित्ते परामृश्य स धावति स्म, स्त्रीणां ग्रहस्तत्र परं बलीयान् // 10 // अहं द्विपादः चरणद्वयवान् , एतं चतुष्पादं प्राप्तुं कथं वा प्रभवेयम् समथः स्याम् , द्विपादापेक्षया चतुष्पादस्य धावने स्वभावत एव वेगाधिक्यात् इति भावः / एवं पूर्वोक्तप्रकारं चित्ते परामृश्य विचार्यापि स श्रीविजयः धावति स्म, तस्य तदा धावनं न युज्यते इति चेत्तत्राहतत्र ताशाकार्यकरणे, परं केवलं स्त्रीणां प्रह आप्रहः बलीयान् स्त्रीप्रसादनाय हि धीमन्तोऽप्य कार्य प्रवर्तन्ते रामादिवदिति भावः // 8 // આ ચાર પગવાળાને બે પગવાળે હું કેવી રીતે પકડવા શક્તિમાન થઈશ. એમ મનમાં વિચારીને પણ તે રાજા દેડયો. તેમાં સ્ત્રીને હઠ જ સૌથી વધારે બળવાન છે. (તે સિદ્ધ થાય છે.) માં अथ मृगस्य प्रतारणप्रकारमाहभूत्वा कदाचित् किल सनिकृष्ट-स्तूर्ण भवत्येव च विप्रकृष्टः / फालं ददयो निकषान्तरिक्षं, केन ग्रहीतुं हरिणः स शक्यः // 11 //