SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ मा. विजयदर्शनसूरीश्वररचितवृत्तिसहिते पञ्चमः सर्गः। [ 27 दित इत्यर्थः "ह्लादः प्रमोदः प्रमदः" इति हैमः। सुतारादेव्या समं सह, ज्योतिर्वनं नाम वनमुपवनम् बिडोजा इन्द्रः शच्या इन्द्राण्या सह नन्दनाख्यं वनमिव, रन्तुंक्रीडयितुं जगाम ययो ।उपमालकारा८॥ એક સમયે સ્ત્રીઓને મનોહર એવા શ્રી વિજય રાજા સતારા દેવીની સાથે જ્યોતિર્વન નામના उधानमां----- साथे नन्न पननीम-31 ४२वा साम्यो. // 84 // / . तस्मिन् क्षणेऽसौ कपिलस्य जीवो, विद्याधरेन्द्रोऽशनिघोषनामा / विद्यां प्रतारण्यभिधां प्रसाध्य, व्योम्नाऽपतन् विक्रमशालिबाहुः // 8 // दृष्टव भर्तः सविधे सुतारां, प्राग्जन्मकान्तां कमनीयकान्तिम् / तां हर्तुमिच्छुः प्लवमानरूपं, सारङ्गमेकं विचकार सारम् (युग्मम्) // 86 // तस्मिन् क्षणे काले, असौ प्रसिद्धः कपिलस्य तदाख्यब्राह्मणब्रुवस्य जीवः विक्रमशालिनौ बाहू यस्य स तादृशः पराक्रमी, अशनिघोषनामा विद्याधरेन्द्रः, प्रतारणी अभिधा यस्यास्ताम् इन्द्रजालतुल्यां विद्याम् प्रसाध्य व्योम्ना आकाशमार्गेण आपतन् आगच्छन् / अत्र 'आगच्छत्' इति पाठो युक्तः, शान्तिचरित्रान्तरे 'समापतत्', इति पाठदर्शनात् / भर्तुः पत्युः सविवे समीपे, कमनीया कान्तिर्यस्यास्ताम् सुन्दरीम्, सुतारां प्रारजन्मनः कान्तां प्रियाम् सत्यभामारूपाम् , दृष्ट्वैव, तां हर्तुमिच्छुः, प्लव-- मानमुत्प्लवमानं रूपं यस्य तादृशम् , एकं सारं मनोहरं सारङ्गम् मृगम् “मृगः कुरङ्गः सारङ्गः” इति हैमः / विचकार विकृतवान , प्रतारणायेति शेषः // 8 // 86 // તે કાળે તે કપિલનો જીવ પરાક્રમી બાહુવાળા અશનિષ નામનો વિદ્યાધરેન્દ્ર પ્રતારણ નામની વિદ્યાને સિદ્ધ કરી આકાશમાર્ગે જતો મનહર કાંતિવાળી પૂર્વજન્મની સ્ત્રી એવી સતા ઇને જ તેનું હરણ કરવાની ઈચ્છાથી કુદતા શ્રેષ્ઠ એવા હરણનું રૂપ વિકલ્. 585 86 नीलाश्मसम्पादिततुङ्गशृङ्ग-भ्राजल्खुरं काश्चनचारुवर्णम् / व्यालोक्य तं श्रीविजयस्य देवी, साभ्यर्थयत् क्रीडनकैच्छयैव // 87 // नीलाश्मना इन्द्रनीलमणिना सम्पादितं निर्मितं तुङ्ग शृङ्ग विषाणं यस्य तं तादृशम् तथा भ्राजन्तः भास्वराः खुरा यस्य तं तादृशम्। काश्चनं सुवर्णमिव चारुः मनोहरः वर्णः यस्य तम् तं सारङ्गम् , व्यालोक्य दृष्ट्वा श्रीविजयस्य देवी सा सुतारा, क्रीडनकस्य क्रीडासाधनस्येच्छयैव नत्वन्येच्छया अम्यर्थयत्, इमं गृहाणेत्येवं प्रार्थयति स्म / यद्वा क्रीडनकस्येच्छया क्रीडार्थ अभ्यर्थयत् , इमं गृहाणेत्येवं प्रार्थयति स्मैव / एवकारेणात्याग्रहः सूच्यते // 87 // શ્રીવિજયની પત્ની તે સુતારાએ નીલમણિથી જાણે બનાવેલા ઉંચા શીંગડા અને મલકતી ખરી વાળા સુવર્ણની જેમ મનહર કાતિ વાળા તે (હરણ)ને જોઈને રમકડાની ઇચ્છાથી (પકડવા) પ્રાર્થના કરી. 87 एतां विमुच्यावनिवासवोऽपि, प्रख्यातशक्तिमृगमन्वधावत् / वीक्ष्यानुधावन्तममुं मृगोऽपि, तस्येययाऽधावदिव त्वरावान् // 48 //
SR No.004313
Book TitleShantinath Mahakavyam Part 02
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherNemidarshan Gyanshala
Publication Year1966
Total Pages288
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy