________________ पा. विजयदर्शनसूरीश्वररचितवृत्तिसहिते पञ्चमः सर्गः / 25 __ यद्यपि धातोः तत्संज्ञकस्य क्रियावाचकस्य अथ च दैवस्य भविष्यतः, पूर्वम् आदावेव उपसगस्य तत्संज्ञकस्य अपरादेः, उपद्रवस्य च, भावः प्रयोगः, प्राकट्यश्च व्याकरणे शब्दशास्त्रे अयं नियमः प्रणीतः कथितः, व्याकरणे भ्वादिधातोः पूर्वम् प्रादिरुपसर्गः प्रयुज्यते प्रभवतीत्यादौ, एवम् भाव्यनिष्टसूचकमुत्पातादि लोकेऽपि पूर्वमेव जायते, यत्र च न जायते, तत्र नानिष्टं भावि इति मन्यते / तत्रावश्यंभाविनो भाविनः सूचकमुपसर्गाद्यपि शान्त्यादिकर्मणा प्रतिरुध्यते इत्याह-तथाऽपि व्याकरणे तथाप्रणीतेऽपि अर्हता जिनेश्वराणां नमस्कारस्य प्रभावात् सामर्थ्यात्पुसां नैव प्रादुर्भवत् उपसर्ग इति सम्बध्यते / शास्त्रे तथानियमेऽपि लोकेनायं नियमः शान्तिका दिना तद्वारणात् / एवञ्च भाव्यनिष्टसूचकं किमप्युपसर्ग ज्ञातं नेतिभावः। अत्र द्वयोर्धात्वोरुपसर्गयोश्वभेदेऽप्यभेदोक्तेरतिशयोक्तिः // 7 // જો કે વ્યાકરણ શાસ્ત્રમાં ધાતુથી પૂર્વ ઉપસર્ગ. (પ્ર, પરા. વગેરે જોડાય છે આ નિયમ છે, છતાં મનુષ્યોને અરિહંતના નમસ્કારના મહાન પ્રભાવ હેવાથી તેને ઉપસર્ગ (ઉપદ્રવ) થાય નહિં 78 ननु तनिपातोऽपि न जातः किमिति जिज्ञासायामाह-- सध्यानकाष्ठामधितस्थुषो मे, प्राप्ते ततः सप्तमकेऽपि घस्रे / मध्याह्नकाले दिवि वारिवाहः, कल्पान्तकालाब्दसुहृज्जगजै / / 79 / / ततस्तदनन्तरम् , सतोऽविचलस्य ध्यानस्य काष्ठामवस्थामधितस्थुषः प्राप्तस्य मे मम सप्तमके, अपिश्चार्थे, घस्रे दिने प्राप्ते, मध्याह्नकाले, दिवि गगने, कल्पान्तकाले योऽब्दः मेघस्तस्य सुहृन्मित्रम् , कल्पान्तकालाब्दतुल्यः वारिवाहः मेघः जगर्ज स्तनितवान् , एतेन वज्रपतनसंभावनोक्ता // 76 / ત્યાર પછી શુભ ધ્યાનાવસ્થામાં રહેલા મને સાતમો દિવસ આબે છતે મધ્યાહકાલે આકાશમાં કપાંતકાળના વાદળ જેવા વાદળો ગર્જના કરવા લાગ્યાં. ૭લા अथ फलितमाहशम्पा तटत्काररवैस्तु काष्ठाः, सम्पूरयन्ती निपपात यक्षे / अन्तःपुरीभिः प्रमदाद्विमुक्ता, मुक्तादिवृष्टिगणके तु तस्मिन् // 8 // शम्पा विद्युत् “तडिदैरावती विद्युच्चला शम्पाऽचिरप्रभा” इति हैमः। त्वित्यद्भते, तटत्काररवैः तटदित्याकारशब्दैः, काष्ठाः सर्वा दिशः सम्पूरयन्ती, व्याप्नुवन्ती, यक्षे राज्याभिषिक्तयक्षप्रतिमायाम् निपपात / तस्मिन्ननागतवक्तरि, गणके दैवज्ञे तु च अन्तःपुरीभिः अन्तःपुरस्त्रीभिः, प्रमदाद् हर्षात् , तत्कृतानागतकथनेन राज्ञः प्राणरक्षणं युक्त्या इति हेतोहर्ष इति भावः / अन्यथा तु वजपतने शोकेनैव भाव्यमिति भावः / मुक्तादीनां वृष्टिः, मुक्ता कृता / एवञ्च गणकस्योक्तिद्वयमपि सत्यमेव जातमिति भावः // 8 // વિજળી તડાકાના અવાજથી દિશાઓને ગજાવતી યક્ષ ઉપર પડી અને ત્યારે અંતઃપુરની રાણીએ હર્ષથી તે નવી ઉપર મોતી વગેરે વર્ષાવ્યાં. 18