________________ 24 ] श्रीशान्तिनाथमहाकाव्ये . अथ पश्चात् मन्त्रविदा मन्त्रिणां धुरीणा अग्रेसराः ते सचिवाः, चेतसि झणं चिन्तयित्वा विचार्य प्रावादिषुः ऊचुः / किमित्याह-राज्ये, श्रीदस्य-यक्षस्य इयम् अदी-कौबेरी “यौकपिङ्गेलविलश्रीदपुण्यजनेश्वराः” इत्यमरः / प्रतिमा-बिम्बमेव निवेश्या, नृपत्वेन स्थाप्या, तथा एवं सति, ते-तव, जीवधातः-जीवधातजन्यदोषः, अपि, कार्य कारणोपचारः तदोषस्यातिमहत्वसूचनाय, न भवेत् / बिम्बस्य निर्जीवत्वेन तदुपर्यशनिपातेऽपि न जीवघात इति भावः // 75 / / ત્યારે વિચારવંતામાં અગ્રેસર એવા તે મંત્રીઓ ક્ષણવાર મનમાં વિચારીને બેલ્યા કે રાજાના પદે કુબેર યક્ષની પ્રતિમાને જ સ્થાપિત કરીએ, તેમ થતાં તમને જીવહિંસા પણ નહિ થાય. આપા श्रीविजयस्य कर्त्तव्यमाह-- एतत्सदालोचितमञ्जसा वो, मत्यानुमत्यायतनं जिनस्य / गत्वा कृताः कृतपौषधश्च, दर्भेर्विदृब्धाऽऽस्तरणोन्यधषीदम् / / 76 // वः युष्माकं, मत्या बुद्धया, एतत्पूर्वोक्तं सत् साधु आलोचितं विचारितम् , इति अनुमत्य अनुमोद्य, स्वीकृत्य वा, जिनस्य आयतनं प्रासादं गत्वा, कृता अर्चा जिनस्य पूजा येन स तादृशः सन् कृतं स्वीकृतं पौषधं तदाख्यव्रतं येन स तादृशः दर्भः कुशदृब्धम् विहितमास्तरणं शय्या येन स तादृशः सन् न्यषीदमुपाविशम् , जिनं संपूज्य पौषवं गृहीत्वा दर्भासनमास्तीर्य चोपाविश. मित्यर्थः / / 76 // આ બુદ્ધિપૂર્વકનો તમારો વિચાર સારો છે અને સરલ છે, એમ અનુમતિ આપીને હું જિનાલયમાં જઈ પૂજા કરી પિષધ લઈ દર્ભને સંથારે કરી બેઠે. 76o राज्ये धनेशप्रतिमाभिषिक्ता, तत्कालमेतैः सचिवैस्त्रिकालम् / आराध्यते स्म प्रभुनिर्विशेष, कुर्वन्ति किं नेशहितानुरक्ताः ! // 77 // राज्ये तत्कालमेव, एतैः पूर्वोक्तैः सचिवैः अभिषिक्ता कृताभिषेका धनशेस्य धनदस्य प्रतिमा त्रिकालं त्रिषु प्रातमध्याह्नसायंकालेषु प्रभुणा राज्ञा निर्विशेषं विशेषो न्यूनाधिक्यं तद्रहितं यथा स्यात्तथा प्रमरिवेत्यर्थः / आराध्यते सेव्यते स्म / तत्र हेतुमाह-ईशस्य स्वस्वामिनः हिताय अनुरक्ताः किं न कुर्वन्ति ? सर्वमेव कुर्वन्तीत्यर्थः / एवं चेशहिताय प्रतिमाया अपि तादृशमारावनं न विरुध्यत इति भावः // 7 // આ મંત્રીઓએ તત્કાલ રાજાના પદે યક્ષની પ્રતિમાને અભિષેક કર્યો અને રાજાની જેમ જ તેની આરાધના કરવા લાગ્યા. સ્વામીના ભલા માટે પ્રેમવાળાએ શું નથી કરતા? ૭ળા अर्हत्प्रभावान्नृणामुपसर्गभावो नेत्याहपूर्व हि धातोरुपसर्गभावो, यद्यप्ययं व्याकरणे प्रणीतः / प्रादुर्भवेन्नैव तथापि पुसा-महन्नमस्कारमहाप्रभावात् // 7 //