________________ आ. विजयदर्शनसूरीश्वररचितवृत्तिसहिते पञ्चमः सर्गः। [ 23 अथ सचिवोक्तमवषार्य राज्ञः विप्रतिपत्तिमाहतन्मन्त्रमाकर्ण्य मयाऽपि प्रोक्तं, यः स्थाप्यते राज्यपदे स्वरुच्या / तत्प्राणनाशं परिचिन्तयेत् कः, कन्याणमिच्छनिजजीवितस्य ? // 73 / / तेषां मन्त्रं विचारमाकर्ण्य मया श्रीविजयेनाऽपि च, उक्तम् / किमित्याह-स्वरुच्याच्छया, राज्यपदे-राज्यरूपे पदे राज्याधिकारे यः पुरुषः स्थाप्यते अधिक्रयते, निजजीवितस्य स्वात्मनः कल्याणं शुभम् इच्छन् कः नरः तस्य प्राणनाशं परिचिन्तयेत् / यो हि राजा स्यात्तस्मिन्नशनिपातः, एवश्च स्वप्राणरक्षणाय परप्राणनाश इत्यायातम्. परप्राणैः स्वप्राणरक्षिता च हिंसकत्वान्न शुभं लब्धुमहति, एवञ्च स्वस्य शुभमिच्छन् न कोऽपि परप्राणनाशं परिचिन्तयेदपि, अन्यथा हिंसादोषादिसद्भावादिति भावः // 73 // મેં પણ તેનો વિચાર સાંભળીને કીધું કે પોતાની રુચિએ રાજાને પદે જે સ્થાપિત કરાશે, પિતાના જીવનું ભલુ ઈરછત કોણુ. તે રાજાના પદે સ્થપાયેલાના પ્રાણના નાશની ચિન્તા કરે ? 73 विप्रतिपत्त्यन्तरमाहप्राणैः परस्यापि विनश्वरान् स्वान् , प्राणानवेयं यदि वस्तुवृत्त्या / न स्यात् कदाचिन्मरणं ममापि, मुक्तिं गतस्येव निरीहवृत्तेः // 74 // यदि वस्तुवृत्त्या वस्तुतः, परस्य प्राणैरपि स्वान्-स्वकीयान, विनश्वरान् अनित्यान, एतेन तेषां विनाशः ध्रुवः, न तु शक्यवारण इति सूच्यते / प्राणान् अवेयम्-रक्षेयम्, तदेति शेषः / निरीह वृत्तेः निष्तृषस्य, मुक्तिं गतस्य मुक्तस्य पुरुषस्येव, ममापि कदाचिदपि मरणं न स्यात्, यथा मुक्तस्य न मरणं तस्य जन्माभावात् / एवं मरणकाले समुपस्थिते परप्राणानां मारणेन स्वमरणनिवारणेऽयत्नसिद्धममरत्वम्, ममेत्युपलक्षणम् , अन्यस्याप्येवम् अमरत्वसंभवात् ; न चैवमद्यावधि क्वापि जातम् , जन्तोमरणावश्यभावात् , तनिवारणस्याशक्यत्वात्, एवं च राज्येऽन्यस्मिन्निवेशितेऽपि न म्रियमाणस्य मम रक्षणं संभवति / यदुक्तम्-"अद्य वाऽब्दशतान्ते वा मृत्युर्वै प्राणिनां ध्रुवः” इति / "जातस्य हि ध्रवं मृत्यवं जन्म मतस्य च" इति च / एवश्च भवन्मन्त्रः न युक्तिमास्कन्दति पूर्वोक्तदोषादिति उपायान्तरं वा विचार्यताम् , भाग्यमवलम्ब्य वा स्थीयताम्, इति मदीयो मन्त्रः इति भावः // 74 / / જે બીજાના પ્રાણોથી નાશવંત એવા પોતાના પ્રાણોની રક્ષા ખરેખર કરી શકું તે મુક્તિને પામેલા વીતરાગની જેમ મારું પણ મૃત્યુ કદી થાય નહિ. 74aa अथ तेषामुपायान्तरमाहप्रावादिषुर्मन्त्रविदां धुरीणा-स्तेऽथ क्षणं चेतसि चिन्तयित्वा / अंदी निवेश्या प्रतिमैव राज्ये, नो जीवघातोऽपि भवेत्तथा ते // 7 //