________________ . 22 ] श्रीशान्तिनाथमहाकाव्ये तहि रक्षणाय कि कर्तव्यमिति चेत्तत्राहतस्मात्प्रचण्डाशनिपातघात-कार्याय सजीक्रियतां तपोऽस्त्रम / यद्भावशाणाश्रयणात् समस्त-प्रत्यूहमुच्छेत्तुमलंभविष्णु // 70 // तस्माद् भाव्यस्याभाव्यभावात् , प्रचण्डः अत्युग्रः यः अशनिः वजं तस्य पातस्य यो घातो निवारणं तस्मै कार्याय तपः ब्रताधनुष्ठानमेवास्त्रं तत्, सज्जीक्रियतां सन्धानयोग्यं क्रियताम्, यत्तपोऽस्त्रम्, भावः शाणः कषः "शाणस्तु निकषः कषः" इत्यमरः / शाणः शस्त्रतीक्ष्णधारकारियन्त्रं वा तस्याश्रयणात्, समस्तमेव प्रत्यूहं विघ्नम् उच्छेत्तुम् निवारयितुम् अलम्भविष्णु समर्थ स्यात् // 7 // ભારે પ્રચંડ એવા વજના નિપાતને નિવારવા માટે તત્પરૂપી અશ્વને તૈયાર કરે, જે ભાવરૂપી શાણ ઉપર ચડી સર્વ વિદનેને નાશ કરવા સમર્થ થશે. 70 अथ सचिवान्तरविचारमाहश्रुत्वेति तुर्यो वदति स्म मन्त्री, ज्योतिर्विदाख्यायि तडिभिपातः / श्रीपोतनेशस्य किलोपरिष्टाद् , भावी न तु श्रीविजयस्य राज्ञः // 7 // इति तृतीयमन्त्र्युक्तं, श्रुत्वा, तुर्यः चतुर्थः मन्त्री वदति स्म, किमित्याह-ज्योतिर्विद। श्रीपोतनेशस्य उपरिष्टात् तडितः वज्रस्य निपातः भावी, इतीति शेषः, आख्यायि कथितम्, किलेति स्मरणे, न तु श्रीविजयस्य राज्ञः, उपरि अशनिपातो भावीत्याख्यायीति सम्बध्यते // 71 // આ સાંભળી ચોથે મંત્રી બે-એષીએ શ્રીપતન નગરના રાજા ઉપર વજ પડશે એમ કીધું છે, કિંતુ શ્રીવિજય રાજા ઉપર નહિં. 71 नन्वेवमेतत् ततः किम्सप्ताहमन्यः क्रियतां तदस्य, स्वामी पुरस्य प्रयतैर्भवद्भिः। प्रज्ञाप्रधानत्वममंस्त तस्या-मात्यस्य दृष्टो गणकोऽथ शस्यम् // 72 // तस्माद्धेतोः प्रयतैः सावधानैः भवद्भिः सचिवैः सप्ताहं सप्तदिनं यावत् / अस्य श्रीपोतनाख्यस्य पुरस्य, अन्यः स्वामी क्रियताम, एवं च यः तदानीं पत्तनेशः स्यात्तस्योपर्येवाशनिः पतेन्नतु श्रीविजयस्योपरि इति तस्य रक्षणं सुकरमेवेति भावः / अथानन्तरं हृष्टः रक्षासुयुक्तिं वीक्ष्य प्रसन्नः गणकः दैवज्ञः “ज्योतिषिको दैवज्ञगणकावपी'त्यमरः / अस्य चतुर्थस्यामात्यस्य सचिवस्य, शस्यं प्रशंसनीयम् प्रज्ञा बुद्धिः प्रधानं यस्मिन् तस्य भावस्तत्त्वं बुद्धिमत्त्वम्, अमंस्त मेने // 72 // તે તમે બધા સાવધાન થઈ એક સપ્તાહ સુધી કોઈ બીજાને આ નગરને સ્વામી બનાવો. ત્યારે જોશીએ ખુશ થઈ તે મંત્રીને પ્રશંસનીય બુદ્ધિવાળા જામ્યો.