________________ आ. विजयदर्शनसूरीश्वररचितवृत्तिसहिते पञ्चमः सर्गः / [ 19 ત્યાં એક સમયે કયાંકથી મનુષ્યના માંસ ખાવાને તલસતી છઠ્ઠવા વાળો કઈ રાક્ષસ આવ્યો, જે ત્યાં નિત્ય ઘણા માણસોને મારી નાખો અને કંઈક જ ખાતો હતો. ૬ના ___ श्रीसागराणां गुरुनागराणां, विज्ञापनानन्तरमेव भपः / साम्ना तमाचष्ट निहंसि कस्मा-ज्जन्तूननेकांस्तनुमांसकार्ये // 61 // श्रीणां मणिरत्नादिसम्पत्तीनां सागराः रत्नाकरा इव तेषाम् , गुरूणां विद्यावित्तादिभिः श्रेष्ठानां नागराण। पौराणां विज्ञापनाया अनन्तरम् एव, एतेन राज्ञः प्रजावत्सलता सूचिता, सद्य एव तदुपप्लवप्रतीकारे प्रवृत्तेः / भूपः साम्ना सान्त्वनेन प्रियवचनादिना 'साम सान्त्वन' मिति हैमः। शान्तिमाश्रित्य, एतेन धीरोदात्ततोक्ता / तं राक्षसम् आचष्ट अचकथत्, किमित्याह-तनोरल्पस्य मांसस्य कार्य निमित्तम्, अनेकान् जन्तून् प्राणिनः, कस्मात्, निहंसि, आदौ मांसाशनमेवातिनिषिद्धम्, तत्रापि तनोरर्थे बहूना मारणं तु मांसभक्षकस्यापि न युज्यते इति // 6 // લક્ષ્મીના સમુદ્ર જેવા શિષ્ટ નાગરિકોની વિનંતી થતાં જ રાજાએ શાંતિથી તેને કીધું, શું કામ થડાક માંસ માટે અનેક પ્રાણિયોને તું હણે છે? માલા ननु मांसाशिनो मम बुभुक्षाशान्तिः कथमिति चेत्तत्राहस्थानस्थितस्यैव मयैव तत्त्वं, दत्तं बुभुक्षापगमाय मत्यम् / आस्वादकं सविधे समेतं, नित्यं स्वयं नृक्षय ! रक्षयान्यान् // 62 // नृक्षय ! मनुष्यनाशक ! तत्तस्माद् अल्पार्थे बहुनाशस्यानुचितत्वाद्धेतोः स्थानस्थितस्यैव, न तु कुत्रापि गमने प्रयोजनम् , अन्यथैवेष्टसिद्धेरिति भावः / बुभुक्षायाः तवाशनायायाः अपगमाय शान्तये 'अशनाया बुमुक्षा क्षुडित्यमरः' मया दत्तम् एकं मत्यै मनुष्यमेव, न त्वन्यमिति भावः / नित्यं प्रत्यहम्, स्वयमात्मनैव, न तु तत्रापि तवायासस्यावश्यकतेति भावः / सविधे समीपे, समेतमागतम् , आस्वादय भक्षय / अन्यान् मान् रक्षय मा हंसीः, तव प्रयोजनस्य सिद्धत्वादिति भावः // 62 // હે રાક્ષસ! પિતાના સ્થાનમાં રહેલા જ તને તારી ભૂખ દૂર કરવા માટે મારાથી મનુષ્ય અપાયેલા છે. જાતે જ પાસે આવેલા તે એક મનુષ્યને દરરોજ તું ખા. બીજાને મૂકી દે. ૬રા अस्त्वेवमित्यादृतवाचि तस्मि-नामानि सण्यिपि लेखयित्वा / . आरक्षकैराशु पुरौकसां रा , क्षिप्तानि नव्येषु करीरकेषु // 63 // एवमस्तु इतीत्थम् आहता स्वीकृता वाग् येन तस्मिन्, तस्मिन् राक्षसे सति, सर्वाण्यपि पुरौकसा पौराणां नामानि लेखयित्वा, राट् राजा, नव्येषु करीरकेषु घटेषु “वंशाङ्कुरे करीरोऽस्त्री, तरभेदे घटे च ना" इत्यमरः / आरक्षकः रक्षापुरुषैः करणैः क्षिप्तानि-विहितानि / अत्र राडिति प्रथमाविभक्तिः प्रमादात् , क्षिप्तानीति कर्माणि कृत्प्रत्ययात् तृतीयाया एवौचित्यात् / यद्वा आदिकर्मणि कर्तरि क्तः // 63 / /