________________ 18 ] श्रीशान्तिनाथमहाकाव्ये समूहः पूजयामास सेवते स्म, स तादृशः, नवः विलक्षणः द्विजेशः चन्द्रः नैव किम् ? अपि त्ववश्यं विलक्षणः, यतः एकमहेश्वरपूजित एव आकाशस्थः प्रसिद्धः, चन्द्रः शिवेन शिरसि धारणात् / अयं तु महेश्वरवर्गपूजित इत्यसौ विलक्षण एव भवितुमर्हतीत्यर्थः / अत्र च महेश्वरवर्गपूज्यत्वेन प्रसिद्धचन्द्रापेक्षयाऽस्याधिक्यवर्णनादुपमोज्जीवितो व्यतिरेकालङ्कारः / द्विजेशत्वेनाध्यवसायाच्चातिशयोक्तिस्तत्पुष्टा // 57 // તે નગરમાં પુણ્યના ઉત્તમ પર્વ જેવા રુસોમ નામનો મહીપતિ રહેતો હતો. જેને મહેશ્વર મહાદેવ, ધનાલ્યોનો સમૂહ પૂજતો હતે. (તે) શું તે નો દિનેશચન્દ્ર, બ્રાહ્મણને રાજા ન હતે? હતો જ. કેમકે પ્રસિદ્ધ ચન્દ્રને એક જ મહેશ્વર મસ્તક ઉપર ધારણ કરે છે, અને રાજા બ્રાહ્મણને પણ રાજા હોય છે. પેલો ચન્દ્ર છે તેવો નથી. આપણા कान्ता शिवाख्या ज्वलनादिरस्या-ऽऽसीतर्जयन्ती ज्वलनं स्वकान्त्या / लावण्यमुद्दाममधिश्रयन्ती, प्राणेशितुर्या मधुरा बभूव // 58 // * अस्य नृपस्य स्वकान्त्या, ज्वलनम् अग्निम्, तर्जयन्ती अधिक्षिपन्ती, ज्वलनादप्यधिकतेजस्विकान्तिमती, ज्वलनादिरम्या शिवाख्या ज्वलनशिखेति नाम्नी कान्ता आसीत् या ज्वलनशिखा उद्दाममुत्कटम् लोकातिशयम्, लावण्यम् सौन्दर्यम्, अधिश्रयन्ती सती, प्राणेशितुः पत्युः, मधुरा अतिप्रिया बभूव // 8 // (તેને) પિતાની કાન્તિથી અગ્નિને પણ જીતવાવાળી જવલનપ્રભા નામની પત્ની હતી. ઉત્કૃષ્ટ લાવણ્યને ધારણ કરતી જે પતિને અત્યન્ત પ્રિય હતી. પ૮ जज्ञे शिखी नाम तयोस्तनूजः, प्राप्तः प्रणीतैरुपयाचितौधैः / गार्हस्थ्यवृक्षः सफलः पितृभ्या-मज्ञायि यस्मिन् परिवर्धमाने // 58 // तयोः नृपराज्योः प्रणीतैः कृतैः उपयाचितौषैः देवगुरुप्रार्थनाभरैः, प्राप्तः तनूजः पुत्रः शिखी, नाम जज्ञे / यस्मिन् पुत्रे परिवर्धमाने सति, पितृभ्यां गार्हस्थ्यमेव वृक्षः, सफलः, अज्ञायि ज्ञायते स्म // 5 // તે બનેને શિખી નામનો પુત્ર ઉત્પન્ન થયો. જે અનેકે માનતા માનવાથી મળ્યો હતો. જે વૃદ્ધિ પામતે છતે પિતા-માતાએ ગાઈય્યરૂપી વૃક્ષને સફળ માન્યો હતો. પિલા तत्रान्यदा कश्चन यातुधानो, मानुष्यमांसादनलोलजिह्वः / ___एतः कुतश्चित् स नरानिहन्ति, नित्यं वहूनत्ति च तत्र किश्चित् // 60 // तत्र पुरे, अन्यदा मानुषस्य मनुष्यसम्बन्धिनः, मांसस्यादने भक्षणे लोला सलालसा जिह्वा यस्य स तादृशः, मनुष्यमांसभक्षकः कश्चन यातुधानः राक्षसः, 'कौणपयातुधानौ' इति हैमः / कुतश्चित्, एतः आगतः, स राक्षसः नित्यं बहून् नरान् निहन्ति मारयति स्म, तत्र किश्चित् अत्ति भक्षयति स्म च // 60 //