________________ आ. विजयदर्शनसूरीश्वररचितवृत्तिसहिते पञ्चमः सर्ग:।। तृतीयः मन्त्री निजगाद, एषः सद्यः कथितः मन्त्रः विचारः अपि विशेषदृष्टया सूक्ष्मबुद्धथा नैव इलाध्यः प्रशस्यः, तत्र हेतुमाह-यद् यस्माद् भाविनः भविष्यतः, कायस्येति शेषः विभङ्गस्य निवारणस्य हेतुः कारणं नैव, किश्चिदस्तीति शेषः / तत्रोपपत्तिमाह-हि यतः सर्व भावि, कर्मणः पूर्वकृतस्य अनुभावेन प्रभावेण, कृतस्य च भोगादेव क्षयादिति भावः // 54 // ત્રીજે મંત્રી બોલ્યો કે વિશેષ દષ્ટિએ આ વિચાર પણ પ્રશંસનીય નથી. કેમકે ભાવીને નાશ થાય એ કોઇ ઉપાયે નથી. કમના પ્રભાવે બધુ થવાનું જ છે. 54 भाविनो बलवत्त्वमेवाहमन्त्रैरनेकैरपि जप्यमानै-यन्त्रैरनेकैरपि यन्त्र्यमाणः / तन्त्रैरनेकरपि तन्त्र्यमाणे- भाव्यतां भाव्यमुपैति किञ्चित् // 55 // अनेकैः मन्त्र जप्यमानैः अपि सद्भिः, अनेकैः यन्त्रः यन्त्र्यमाणैः लिख्यमानैः अपि सद्भिः, अनेकैः तन्त्रैः तन्त्र्यमाणैः क्रियमाणैरपि सद्भिः किनिस्किमपि भाव्यं भावि अभाव्यताम् अभवनीयतां न उपैति, 'अवश्यमेव भोक्तयं, कृतं कर्म शुभाशुभ' मित्युक्तेरिति भावः // 55 // અનેક મંત્રો જપાતા છતાં, અનેક યંત્રો યોજાતા છતાં, અનેક તંત્રો કરાતાં છતાં કંઈ પણ ભાવી અભાવપણાને પામતું નથી. ભાવી રોકી શકાતું નથી. પપા भाविनी बलवत्त्वे दृष्टान्तमप्याहवातं तदेतन्नियतं तथाहि, क्षेत्रे पुरं श्रीविजयाख्यमत्र / यस्योच्चसौधेषु सुवर्णकुम्भ-च्छायं समास्कन्दति पूर्णचन्द्रः // 56 // तत्तस्मादेतद्वात भविष्यत्कथनं नियतं निश्चितं तथाहि-यथा, अत्र भरते क्षेत्रे श्रीविजयाख्यं पुरम् अस्तीति शेषः यस्य पुरस्य उच्चेषु सौधेषु प्रासादेषु पूर्णचन्द्रः सुवर्णकुम्भानां छायां कान्ति समास्कन्दति प्राप्नोति / एतेन प्रसादानां चन्द्रगमनमार्गपर्यन्तोच्चता सुवर्णकुम्भबाहुल्यं च सूचितं, नान्यथा चन्द्रस्य तत्कान्तिग्रहणसंभवः / अत्र चन्द्रस्य स्वगुणत्यागेन कुम्भगुणग्रहणवर्णनात् तद्गुणालङ्कारः तल्लक्षणं यथा-“तद्गुणः स्वगुणत्यागात् ताहगन्यगुणग्रहः” इति / स च चन्द्रस्य तथागुणग्रहणाऽभावेऽपि तथोक्तरसम्बन्धे सम्बन्धरूपातिशयोक्त्यनुप्राणितः // 56 // તેને વિષયે નિશ્ચિત આ વાત છે. જેમકે આ ક્ષેત્રમાં શ્રી વિજય નામનું નગર હતું. જેના ઊંચા મહેલે ઉપર પૂનમને ચન્દ્ર સુવર્ણ-ઘટની શોભાને પામતો હતો. સુવર્ણના ઘડા જેવો ભાસતો હતો. પદા तस्मिन्नवात्सीद्वसुधासुपर्वा, पुण्याधिपर्वा किल रुद्रसोमः / यं पूजयामास महेश्वराणां, वर्गः स किं नैव नवो द्विजेशः // 57 // तस्मिन् पुरे पुण्यम् अध्यधिकं पर्व उपासना कालविशेषः यस्य पुण्यस्याधिकं पर्व उपासनाद्वारा यस्य स तादृशः धर्मानुष्ठानपरायणः, वसुधायां सुपर्वा इन्द्रः इव, नृपः रुद्रसोमः तन्नामा अवात्सीत् किलेत्यैतिथे (किल संभावने) / यं नृपं महेश्वराणां राज्ञाम् अथ च शिवानां वर्गः