SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ 246 ] प्रमुदिताशयानाम् एष्टमनसा नागरयोषितां पुरस्त्रीणाम् , इति पूर्वोतिप्रकारं वचनं, श्रुते। कर्णस्य विषयं गोचरतां नयन् शृण्वनित्यर्थः / नृपः अमरदत्तनृपः, सचिवैः माण्डलिकैः सामन्तैश्य अभितः परितः वृतः समन्वितः, नृपतिसोधम् राजप्रासादमवाप प्राप्तः // 18 // આમ અત્યંત પ્રસન્ન સ્ત્રી નગરીની સ્ત્રીઓને વચન સાંભળતે મત્રી-મંડલથી પરિવરેલો રાજા રાજાના મહેલમાં પહે. ૧૮દા व्यधित भूमिपतेरभिषेचनं, सचिवसंहतिरभ्युदयोन्मुखी / विविधतीर्थजलैरुपहारितः, कनककुम्भधृतरथ पावनः // 187 // अथ नृपतेः प्रासादप्राप्त्यनन्तरम् , सचिवानां संहतिः गणः, अभ्युदयस्य श्रेयस उन्मुखी प्रवणा अभ्युदयाकामिणी सतीत्यर्थः / उपहारितैः आनायितैः, पावनैः पवित्रः, "पवित्रं पावनं पूतम् // इति हैमः / कनककुम्भेषु सुवर्णकलशेषु धृतैः निक्षिप्तः विविधानां तीर्थाना जलै, भूमिपतेः अभिषेचनं राज्याभिषेकं व्यषित चकार // 18 // આબાદિને ઈચ્છો એ મંત્રિઓને સમૂહ ઉપહારમાં અપાયેલા સુવર્ણ ઘટના ઘીથીને નાના તીર્થના પવિત્ર જલેથી રાજાને અભિષેક કર્યો. ૧૮ળા ___ अथ नृपतेः व्यवहारविभागमाहसुहृदि मन्त्रिपदं निदधेऽमुना, प्रविदधे महिषी मणिमञ्जरी / सममहेम्यवरो मणिसारकः, क्षितिभुजा जनकेन समस्तदा // 18 // तदा राज्याभिषेके जाते, मितिमुजा राजाऽमरदत्तेन मन्त्रिपदं मन्त्रित्वम् सचिवत्वं "अमात्यः सचिवो मन्त्री" इति हैमः। सुहृदि मित्रे मित्रमुदि निदधे न्यस्तम् , मित्रमुदं मन्त्रिणमकारयदित्यर्थः / तथा मणिमञ्जरी महिषी पट्टराशी प्रविदधे कृता / तथा समेषु सर्वेषु महेभ्येषु श्रेष्टिषु वर श्रेष्ठः मणि. सारकः तदाख्यः श्रेष्ठी जनकेन पित्रा समः तुल्यः प्रविदधे इत्यनुष्यते, पितृवदुपकारकत्वा तु पितृतया स्थापित इति यावत् // 18 // ત્યારે તે અમરદત્ત રાજાએ મિત્રને મંત્રિ પદ પર સ્થાપ્ય ને મણિમંજરીને પહરાણી પદે સ્થાપી. જે પિતા તુલ્ય એવા મણિસારને બધા શ્રેષ્ઠીઓમાં નગરશેઠ પણે થાણે. 188 अथ तस्य नृपस्य वैशिष्टयमाहपरमवास्थित भास्वति सूरता, कुमुदिनीदयिते किल राजता / निविडमेव विडोजसि जिष्णुताऽप्यमरदचनृपेऽवति मेदिनीम् // 189 // परमिति तथार्थे, मेदिनीं पृथिवीम् , अवति पालयति सति अमरदत्तनृपे भास्वति सूर्ये सूरतो लोकप्रेरकत्वप्रकाशकवप्रतापाः षुक प्रसवैश्वर्ययोरित्युक्तः धातोः अनुशासनादितिभावः / कुमुदिनीदयिते चन्द्रे राजता शीभमानता आह्लादकता वा, विट् व्यापकमोजोबलं यख स तस्मिन् विडोजसि
SR No.004313
Book TitleShantinath Mahakavyam Part 02
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherNemidarshan Gyanshala
Publication Year1966
Total Pages288
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy