________________ मा. विषबानसूराचररचित्तवृत्तिसहिते अष्टमः सर्गः [245 सखि ! विलोकय यदीतिशेषः। पथिकवृत्तितया पथिकरूपेण न तु राज्यप्राप्तीच्छया, उपागतः 'अयममरदत्ता मणिमार्याः करसरोरहेण पाणिपद्मन या पृक्तिः सम्पर्कः, प्राणिग्रहणमित्यर्थः, तस्यानुभावतः प्रभावतः राज्यमविन्दत प्राप्तवान् , सुलक्षणस्त्रीलामः राज्यादिलाभहेतुर्भवतीतिभावः // 18 // - બીજા પણ બોલી કે હે સખી ! વટેમાર્ગ રૂપે અહીં આવેલ આ મણિમંજરીના કર કમલના સ્પર્શના પ્રભાવે રાજ્ય પ્રાપ્ત કર્યું તે જુઓ. 183 अथ तासां मित्रमुद्विषयमालापमाहरसनया सखि ! वर्णनमेकया, किमिव मित्रमुदोऽस्य विधीयताम् ? / जलधिपारमवाप्य च मालवप्रभुसुतां य इमां सुधियाऽऽनयत् // 184 // सखि ! एकया रसनया जिह्वया अस्य दृश्यमानस्य मित्रमुदः तदास्यस्य नृपसुहृदः वर्णनम् , किमिव विधीयताम् क्रियताम् , एकया जिह्वया तद्वर्णनं न सम्भवतीति भावः, / ननु किं कार्यगौरवं तस्य यदेवं वदसीति चेत्तत्राह-यः मित्रमुत्, जलधिपारम् समुद्रपरतीरमवाप्य गत्वा च, सुधिया सुबुद्धिप्रभावेण, इमां दृश्यमानाम् मालवस्य तदास्यदेशस्य प्रभोनृपस्य सुता पुत्री मणिमञ्जरीम् , आनयत् / दुष्करदुष्करमेतत्कम एवश्च बुद्धिमत्तमत्वान्महासाहसिकत्वाच्च तद्वर्णनमेकया रसनया न सम्भवतीतिभावः // 184 // ત્યારે ત્રીજી બોલી કે હે સખિ આ મિત્રમુદનું વર્ણન એક જિષ્ઠાથી કેમ કરી શકાય કે જે બુદ્ધિમાને સમુદ્રનો પાર પામી માલવદેશના રાજાની આ કન્યાને લઈ આવ્યો. ll184 भिन्नाचिहि लोक इति कस्याश्चिन्मणिसारस्तुतिमाह-- सखि ! विवण्यतमो मणिसारको, दयितया दयया समलङ्कृतः / कथमपीममजीजिवदेव यः, सहचरेण विनाऽत्र पुनः स्थितम् // 185 // सनि ! दयितया प्रियया इव दयया समलकृतः समन्वितः, नहि स्त्र्यभावे दयाऽभावे च कोऽप्येवं कर्तुमर्हतीति भावः / मणिसारकः तदाख्यो वणिक् , विवर्ण्यतमः अतिशयेन वर्णनीयः, स्तुतौ हेतुमाह-य एव, नत्वन्यः एवं कतु प्रभवति इति भावः / पुनरिति वाक्यालङ्कारे, सहचरेण मित्रेण, सहायेन वा विना, असहायमित्यर्थः, अत्र स्थितम् , इमममरदत्तनृपम् , पुत्रमपरिचितं, कथमपि, दुष्करेण प्रयत्नेन पुत्रवत् अजीजिवत् जीवितवान् , असहायसहायो हि सर्वगुणप्रधानदयावान् इति स स्तुत्यतम इति भावः // 18 / / - ચોથી બોલી કે હે સખી પ્રિય એવી દયાથી શોભીત આ મણિસાર પ્રશંસા કરવા યોગ્ય છે. કે જેણે સાથી વગર રહેલા આ અમરદત્તને કઈ પણ રીતે જીવતો રાખ્યો. 185 . अथ नृपस्य राजसदनप्राप्तिमाहइति नयन् वचनं विषयं श्रुतेः, प्रमुदिताशयनागरयोषिताम् / . मृपतिसौधमवाप नरेश्वरः, सचिवमाण्डलिकैरभितो वृतः // 186 //