________________ "244 "मौशान्तिनाथमहाकाव्ये जनपदान्तरमप्यधिजग्मुषः, सुकृतिनः सुकृतं फलववेत् / क्वचन तिष्ठतु गच्छतु बेच्छया, कनकमस्य हता न महार्घता // 18 // अथ अमरदत्तस्य नृपत्वप्राप्ति समर्थयति / जनपदान्तरं देशान्तरमपि अधिजग्मुषः गतस्य, न तु स्वदेशमात्रे, सुकृतिनः पुण्यशालिनः सुकृतं पुण्यम् फलवदभवेत् , फलत्येवेत्यर्थः / अमरदत्तोऽपि पुण्यवानेवेति तद् भाग्यं. जोग]व, कथमन्यथा पूर्ववृत्तस्य घटनेतिभावः / किन कनकम् सुवर्णम् , इच्छयान्यथारुचि, दैवप्रेरितम्, इति यावत् / अचेतनस्य कनकस्य इच्छया प्रवृत्त्ययोगादिति बोध्यम्। क्वचन कुत्रापि, तिष्ठतु गच्छतु वा, अस्य कनकस्य महार्घता बहुमूल्यवत्त्वम्, पूजातिशयलाभ इति यावत्, न हता नापगच्छति / कनकं सर्वदा कनकमेवेत्यमरदत्तस्याऽपि राजपुत्रत्वाद्राज्यप्राप्तिः * नैसर्गिकी पुण्यप्रयोजिता वा, नात्रानौचित्यमसम्भवो वेतिभावः // 180 // દેશાત્રમાં પણ ગયેલા પુણ્યશાલીનું પુણ્ય ફળ આપે જ છે. તેનું મુક્ત રૂપે કયાં પણ જાય કે રહે પણ તેનું મહામૂલ્ય પણું જતું નથી. ૧૮ના प्रविशतो नृपतेर्नगरान्तरं वदनचन्द्रमवेक्षितुमुत्सुकाः / व्यधिषताऽऽलपनं नगराङ्गना, भवनतुङ्गगवाक्षमधिश्रिताः // 181 // अथामरदत्तस्य पुरप्रवेशमाह-नगरान्तरम् पुरमध्ये प्रविशतः नृपतेरमरदत्तस्य, वदनं मुखं चन्द्र इव तम् अवेक्षितुं द्रष्टुमुत्सुका नगराङ्गनाः पुरसुन्दयः आलपनं आलापस्तं वार्तालापं, भवनस्य तुङ्गः उच्चस्थानस्थो यो गवाक्षो वातायनं तत्राधिश्रिताः स्थिता व्यधिषत अकाषु रित्यर्थः, निजं मुखम् "वक्त्रास्य वदनं तुंडमाननं लपनं मुखम्" इत्यमरः // 18 // - નગરની અંદર પ્રવેશ કરતા રાજાના મુખ-ચન્દ્ર જેવાને આતુર નગરીની સ્ત્રીઓએ પિત પિતાના મહેલના ઉચા ગૌખમાં મોટું કરી જોવા લાગી. 181 .. अथ तासां परस्परं नृपविषयं सम्माषणमाहसमवलोक्य महीपतिमेकिका, प्रवदति स्म सखी प्रति पश्य यत् / सुरपतेरिव मयंपतेः श्रियः परबलच्छिदुरत्वमनोहराः // 182 // महीपतिममरदत्तनृपं समवलोक्य, एकिका काप्येका सखी प्रति प्रवदति स्म / किमित्याहयत्, पश्य, मर्त्यपतेनृपस्यास्य सुरपतेरिन्द्रिस्येव परबलस्य शत्रुसैन्यस्य छिदुरत्वेन भेदकत्वेन मनोहराः श्रियः लक्ष्म्या, ताः पश्य स्वभाव एवास्य परबलभेदक इत्यर्थः / स्वरूपत एवायं प्रतापीतिभावः // 18 // એક સ્ત્રી રાજાને જોઈ પિતાની સખીને કહેવા લાગી કે જુઓ. ઈદની જેમ જ આ રાજાની લક્ષ્મી 23 સભ્યોના નાશ કરવાની ભાવનાવાલી કેવી મનહર છે. ૧૮રા अपरा अन्या अपि अवदत, किमित्याहअवददप्यपरा मणिमञ्जरी-करसरोरुहपृक्त्यनुभावतः / ... पथिकवृत्तितयाऽयमुपागतः, सखि ! विलोकय राज्यमविन्दत // 183 //