SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ बा. विजयदर्शनसूरीश्वररचितवृत्तिसहिते अष्टमः सर्गः / . [ 239 सुकृतिना पुण्यवता कृतिना धीमतां शिरोमणिः प्रधानम् / स च विद्वत्प्राज्ञो नाऽल्पेन पुण्येन लभ्य इति भावः / एतादृशमित्रलामः नाल्पस्य पुण्यस्य फलमितिभावः // 163 // ત્યારે રાજપુત્રી વિચારવા લાગી કે પુણ્યશાળી એવા બુદ્ધિમાનોને શિરોમણી લેવો જોઈએ કે જેને શાસ્ત્ર અને વ્યવહારના જાણકારોમાં શ્રેષ્ઠ ગુણોની ખાણ આવો મિત્ર છે. 163 अहमपि-त्रिजगत्प्रमदाजनस्तुतिपदं न भवाम्यधुना कथम् 1 / अपि दृषद्वपुषा परिक्लप्तया, युवमनः प्रसभं प्रहतं यया // 16 // अथात्मानमपि धन्यं मनुते अहमिति इति अहमपि अधुना, त्रिजगति भुवनत्रयेऽपि, यः अमदाजनः तस्य स्तुतिपदं प्रशंसापात्रं कथं न भवामि ? अपि तु भवाम्येव, अत्र हेतुमाह-यया मया दृषद्वपुषा प्रस्तरमयशरीरया परिक्लृप्तया निर्मितया स्वप्रतिमया युवमनः प्रसभं हठात् प्रहृतमाकृष्टम्। अन्या तु मानुषशरीरेणाऽपि ताशयुवमनोहरणेऽसमर्था अहं तु स्वप्रतिमयाऽपि तत्र समर्थति अवश्यमहं प्रशंस्या, असाधारणगुणवत्वादिति भावः // 16 // હું પણ ત્રણે જગતની સ્ત્રીઓમાં પ્રશંસાપાત્ર કેમ નહિ થાઉ? કેમકે મારી બનાવેલી પત્થરની મૂતિથી પણ મે યુવાનનું મન હઠથી હરી લીધું છે. 164 विमृशतीति महीपतिकन्यका, सुहृदपेक्षितसिद्धिविधित्सुना। द्रुतमनीयत पुष्पपुरान्तिकं, नयवता कमलेव विशालताम् // 165 // इति-पूर्वोक्तप्रकारेण, विमृशती विचिन्तयन्ती महीपतिकन्यका गजपुत्री, सुहृदः-अपेक्षिता इष्टा या सिद्धिः कार्य तद्विधित्सुना तश्चिकीर्षुणा मित्रमुदा, नयवता-नीतिशेन, कमला लक्ष्मीविशालतां बृद्धिमिव, द्रुतं पुष्पपुरान्तिकमनीयत "कुसुमपुरं पाटलीपुरापराख्यं" प्रापिता। उपमालकारः / / 165 / / આમ વિચાર કરતી રાજાની પુત્રી મિત્રની ઈષ્ટ સિદ્ધિ કરી આપવા ઈચ્છનાર તે મિત્રમુદ વડે નીતિ વડે લક્ષ્મીને વિશાળતા વૃદ્ધિની જેમ કુસુમપુર પાસે શીઘ્રતાથી લઈ જવ ઈ 16 પા अथामरवत्तवृत्तान्तमाहपरमितश्च दृषन्मयपुत्रिका, स्मरणलीनमना नृपनन्दनः / अवसिते सुहृदाऽभिहितेऽवधौ, तमरमिभ्यमयाचत चित्यिकाम् // 166 / / परम् किन्तु इतः कुसुमपुरे च मित्रमुवृत्तसमुच्चायक: / दृषन्मयो या पुत्रिका पुत्तलिका सस्याः स्मरणे लीनमेकतानं मनो यस्य स तादृशः नृपनन्दनो अमरदत्तः, सुहृदा मित्रमुदा, अभिहिते कथिते, अवधौ-कालमर्यादायाम् मासद्वयमिते ज्ञाते सति "ज्ञानं सितगते अवात्"इति हैमः / अवसिते न्यतीते सति अरम-शीघ्रम् एव, एतेन विरहस्यात्यन्तमसहिष्णुता सूचिता तमिभ्यं श्रेष्ठिवरम् रत्नसारम् चित्स्यिको चिता "चिति चित्याचिता" इति हैमः / अयाचत चितारोहणे मनो दधावित्यर्थः॥१६६।।
SR No.004313
Book TitleShantinath Mahakavyam Part 02
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherNemidarshan Gyanshala
Publication Year1966
Total Pages288
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy