________________ 238 ] श्रीशान्तिनाथमहाकाव्ये या फेत्कृतिः शृगालरवः, तया भीषणा, पूर्वकृतोपदेशानुसारादितिभावः / मा सुता मणिमञ्जरी, कचाना केशाना- यद्विकषणं तत् पूर्वकम् , सदोषत्वे हि अपत्येऽपि नादरो महतामितिभावः / तस्य मित्रमुदः, अर्पिता / स्वापत्ये तादृशव्यवहारं समर्थयति-हि यतः, कुलजाः कुलीनाः, कुलभिये कुलकल्याणाय, व्यवसिताः कृतप्रयत्नाः, व्यापृता इति यावत्, भवन्तीतिशेषः / एवञ्च कुलक्षयभयादेवापत्येऽपि तस्या तथाव्यवहार इति भावः // 160 // રાજાએ ચકિત થઈને તેને કશ ખેંચીને તે પુત્રી આપી દીધી પછી તે રાજપુત્રી શિયાલિયાની જેમ ભયંકર મેરે કાર કર્યો, કેમકે કુલીન કન્યા કુલની શોભા આબાદી માટે હોય છે. ૧૬ના . अयमपि प्रणयप्रवणः स ई-फुडिति मन्त्रसमुच्चरणाग्रिमम् / नृपसुतामधिरोह्य तुरङ्गम, निरगमन्नगरादिवसात्यये // 161 / / प्रणयः प्रीतिस्ततप्रवण उन्मुखः, मित्रप्रीतिमानित्यर्थः, स तादृशाद्भुतमतिः, अयं मित्रमुदपि हुंफुडिति मन्त्रसमुच्चारणम् अप्रिमं प्रथमं यथास्यात्तथा, मन्त्रेणेयं मया वशीकृता, इति मारिरेवेयमिति लोकप्रत्यायनार्थमितिभावः / नृपसुता मणिमञ्जरीम् , तुरङ्गममश्वमधिरोह्य, दिवसात्यये सूर्यास्ता. नन्तरम् , दिवसे कार्यविघ्नसम्भवादितिभावः / नगरान्निरगमत् / / 161 / / લોને રીઝવવામાં તત્પર તે મિત્રમુદ પણ હું ' એમ મન્ત્ર બોલતા પહેલા રાજપુત્રીને ઘોડા ઉપર ચઢાવી સાંજે નગરથી બહાર નીકળી ગયા. 161 उदित एष तया हयमाश्रये-ति स जगौ स्फुटमेककवाहने / सह सुहृत्प्रियया त्वधिरोहणं, न खलु सङ्गतिमङ्गति कुत्रचित् // 162 // तया मणिमञ्जर्या, हयमश्वमाश्रयारोहय, इत्येव मुदितः कथितः, एष स मित्रमुत्, स्फुटं जगौ नत्वस्पष्टम् , मित्रस्य स्वच्छहृदयत्वात् , अस्पष्टक्तौ तस्याः अविश्वाससम्भवाचेतिभावः। किमित्याहएककवाहने एकस्मिन् वाहने, तुना वाहनान्तरे सम्मतिः सूचिता, सुहृत्प्रियया सह, अधिरोहणं न खलु नैव कुत्रचिद् कुत्राऽपि सङ्गतिम्, अङ्गति गच्छति, असङ्गतमित्यर्थः / नीतिविरुद्धमितियावत् , मनसि हढेऽपि सति कदाचिद्दोषसम्भवादितिभावः // 162 / / રાજપુત્રીએ તે મિત્રભુદને કીધું તમે પણ ઘોડા ઉપર ચઢી જાવ ત્યારે તેણે ચેમ્બુ કીધું કે એ વાહન ઉપર મિત્રની પત્ની સાથે ચઢવું તે ક્યાંય પણ ઉચિત નથી. ૧૬રા अथ तदुत्तरं श्रुत्वा मणिमञ्जर्याः विचारमाह' नृपसुताऽपि विचिन्तयति स्म सा, सुकृतिनां कृतिनां स शिरोमणिः / गुणनिधिः सुहृदेष यदीयकः, श्रुतिविदा व्यवहारविदां गुरुः // 163 // सा नृपसुता मणिमचर्यपि विचिन्तयति स्म, किमित्याह-श्रुतिविदा विदुषा व्यवहारविदा नीतिज्ञानाञ्च गुरुः श्रेष्ठ, गुणनिधिः-एष मित्रमुत, यदीयकः यस्य सुहृत् मित्रम् , सोऽमरदत्तः, स