________________ '222 ] . भीडान्तिनाथमहाकाव्ये पटहमस्पृशदेव धनाशया, धनमवाप निवेदितसामि च / उपसि चानतिसृज्य धनं बलाच्छवमनैषुरिदं प्रियवान्धवाः // 109 // एष मित्रमुत्, धनाशया धनलोभेन, पटहम् , अस्पृशत् , घोषणास्वीकारसूचकं पटहस्पर्शनमा करोदित्यर्थः / निवेदितस्य घोषणायाँ प्रतिश्रुतस्य सामि “अध धनञ्च सामि त्वर्द्ध" इत्यमरः / अवाप, प्राप, तत्काल एवेति भावः / उपसि प्रभाते च प्रियबान्धवाः मृतनरसम्बन्धिनः इदमवशिष्टमधम् , धनम् , अनतिसृज्य अदत्त्वैव, बलात् मित्रमुदा निवारिताऽपि बलपूर्वकम् शवमनैषुर्नीतवन्तः // 109 / / ત્યારે ધનની ઈચ્છાથી મિત્રમુદે પડહનો રપર્શ કર્યો ને અર્થે ધન તે તેણે ત્યારે જ મેળવ્યું. સવારે વલી પ્રિય બાંધ બાકીનું ધન આપ્યા સિવાય જ બળપૂર્વક તે શબ લઈ ગયા. 19 अनयमैहत मित्रमुदेतर्क, तमपि बोधयितु वसुधाभुजे / वसुशतात्तसुवेषविराजित-स्तदनु वारवधूसदनं ययौ // 110 // मित्रमुत्, एतकं सद्योऽनुभूतम् , तमपि अर्धादानं बलाच्छवग्रहणश्च अनयम् अन्यायम् वसुधामुजे राजे बोधयितु निवेदयितुमैहतैच्छत् , तदनु तादृशेच्छानन्तरम् , वसुशतेन द्रव्यशतेन आत्तेन क्रीतेन सुवेषेण चारुनेपथ्येन विराजितः सुप्रभावसम्पन्नः सन् वारवध्याः वेश्यायाः सदनं ययौ। तत्र गतस्य द्रविणलोभेन कृतेन वारवधूसाहाय्येन कार्यानुकूल्यसम्भवादिति भावः // 11 // મિત્રમુદે આ વાતને અનીતિ માન્ય રાજાને તે જણાવવાને સૌ સેના મહેરથી મેળવીને વેશથી શોભિત થઈ પછી કઈ વસ્યાના ઘરે ગયો. ૧૧ના मदयति स्म हिरण्यचतुःशती-वितरणेन तदैव स कुट्टिनीम् / सवनभोजनकर्मभिरेव सो, विहितगौरवमेतमतूतुषत् // 111 // स मित्रमुत्-तदैव वारवधूसदनं प्राप्त एव हिरण्यचतुःशतीवितरणेन, हिरण्यानां सुवर्णानां चतुर्णा शतानां समाहारः हिरण्यचतुःशतो तस्याः वितरणेनार्पणेन कृत्वा, सुवर्णानां शतचतुष्टयं दत्त्वात्यर्थः / कुट्टिनीम्-"कुट्टनी शम्भली समा"इति हैमः / वेश्योपमातरं शम्भलीम मदयति स्म मत्तामिव करोति स्म / ताम स्ववशाब्वेत्यर्थः / सा एव साऽपीत्यर्थः / सवनं स्नानं भोजनश्च तदादिभिः कर्मभिः क्रियाभिः विहितं गौरवं प्रभूतसत्कारः यस्य स तादृशं यथास्यात्तथा एतम् मित्रमुदम् अतूतुषत् // 111 / / તે ત્યારે જ કુટનીને ચાર સોનામહેર આપીને ખુશ કરી દીધી, તે પણ સ્નાન ભોજન આદિથી સત્કાર કરી મિત્ર મુદને સંતોષ આપ્યો. 111 सहचरार्थविनिर्मितिचिन्तनः, कमनशास्त्रपरिस्मृतिशन्यधीः / अनयदेव तमीमखिलामसौ, हृदि समाधिविधि किल नाटयन् // 112 // सहचरस्य मित्रस्यामरदत्तस्यार्थस्य प्रयोजनस्य पुत्रिकाप्रकृतिमणिमञ्जरीप्रापणेन स्वस्थत्वरूपस्य विनिर्मिति सम्पादनम् , कथमेतसिद्धयदित्येवं चिन्तयतीति सः तादृशः, अत एव कमनशास्त्रस्य