SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ -मा. विषयदर्शनसूरीश्वररचितवृत्तिसहिते अष्टमः सर्गः [223. कामशारूस्य तदुक्त विधेरित्यर्थः / 'अनङ्गमन्मथौ कमनः" इति हैमः / परिस्मृत्या स्मरणेन शून्या रिक्ता धीरस्य स तादृशः, ज्ञातकामशास्त्रोऽपि सुहृदर्थचिन्तनेन कृत्वा न तत्स्मरणावकाश इति भावः, अकृतकामचेष्ट इत्यर्थः। असौ मित्रमुत् अखिलामेव तमी रात्रिम् , हृदि समाधिविधिम् युक्तिप्रयुक्तिम् , अर्थात्सुहृ दर्थसाधने नाटयन् , विचारयन् , अनयद् व्यत्यगाव , किलेति निश्चये // 112 // . इति निशात्रितयेऽपि नियन्त्रितं, विदधतं सुतमां मुनिवन्मनः / सविधभाजिगुणोपचितस्त्रियां, तत इयं तमवोचत शम्भली // 113 // इति पूर्वोक्तेन-चिन्तनप्रकारेण, निशात्रितयेऽपि त्रिसङ्ख्याकासु रात्रिष्वपि, रात्रित्रयं यावदित्यर्थः / गुणेन सौन्दर्यादिरूपेणोपचितायां सम्पन्नायां स्त्रियां सविधभाजि समीपवर्त्तिन्यां सत्यामपि यथा मुनेरविचलं मनस्तथा मुनिवन्मुनितुल्यं मनः नियन्त्रितम्, अविचलितम् , अप्राप्तकामविकारम् , ' विदधतं कुर्वन्तम् , तं मित्रमुदम् , ततः पश्चादियम् , शम्भली कुट्टिनी अवोचत / / 113 // કામશાસ્ત્રનું સ્મરણથી અત્તે એવો તે મિત્રમુદ મિત્ર માટે ચિંતા કરતે મનમાં પૂર્ણ સંતોષને અભિનય કરતો છતે આખી રાત પસાર કરી આમ ત્રણ રાત સુધી ગુણવતી સ્ત્રી પાસમાં રહે છતે પણ મુનિની જેમ મન કાબૂમાં રાખો, તેને તે કુદિનીએ કહ્યું. ll112-113 मम सुता भवता किमुपेक्ष्यते, विकचगन्धफलीव षडंहिणा 1 / किमुचिता न गुणैर्निचिता नवा, प्रियतयोपचिता यदि वा न वा ? // 114 // कुट्टिन्युक्तिमेवाह-ममेति / मम सुता पुत्री व संरक्षणात्पुत्री षडंहिणा भ्रमरेण विकचा विकस्वराया, गन्धफली चम्पककलिका एतस्य "कलिका गन्धफली" इत्यमरः / सेव. भवता किं कुतोः हेतोरुपेक्ष्यते ? षटपदो हि प्रकृत्या गन्धफलीं न जिघ्रति तद्वत्-कामचेष्टया तां किं न स्वीकरोषि ? उचिता त्वदनुरूपा न किम् ? अननुरूपता ह्यौदासिन्यकारणं सम्भाव्यते, तत्त नास्ति तर्हि उपेक्षायां को हेतुरित्यर्थः / वा अथवा, गुणैः सौन्दर्यादिभिः निचिता समन्विता न नास्ति किम् ? तादृश्यपि तु वर्तत एव, अतः प्रश्रान्तरमाह-यदि वा प्रियतया प्रेम्णा-'प्रेमा ना प्रियता हादमी' त्यमरः / उपचिता युक्ता नवा किम् ? भवति प्रीतिं न करोति किम् , को हेतुरिति वद / / 114 // - જેમ શ્રમર વિકસ્વર ચમ્પાની ઉપેક્ષા કરે તેમ મારી પુત્રીની ઉપેક્ષા કેમ કરે છે. શું ગુણવતી આ તમારા યોગ્ય નથી, કે નવી છે. આ પ્રેમથી ભરેલી નથી ? 114 अथ जजल्प स मातरिदं हितं, त्वदुदितं समये विदधे पुरा / कथय किञ्च तवाप्यवरोधके, किमु गति ढसङ्गतिशालिनी ? // 115 // अथप्रश्नानन्तरम् -स मित्रमुत्, जजल्प, किमित्याह-मातः हितम् उचितम् त्वदुदितमिदम् त्वत्सुतानुपेक्षणाभिप्रायकम् , समये अवसर प्राप्ते पुरा विदधे विधास्यामि, पुरा योगे भविष्यन्त्यां वर्तमाना। तव गतिः प्रवेशः दृढसङ्गतिशालिनी कार्यसाधनसमप्रेमपुष्टा किमु ? तत्कथय / / 215 / /
SR No.004313
Book TitleShantinath Mahakavyam Part 02
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherNemidarshan Gyanshala
Publication Year1966
Total Pages288
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy