________________ 220 / भोशान्तिनाथमहाकाव्ये સારી રીતે જેવું છે, એમ કહી મિત્રમુદે તેને ફરીથી પૂછયું ત્યાં જે પુતલી છે તે કોઈની પ્રતિકૃતિ છે કે અદ્દભુત તમારી શિલ્પ કળા છે. ૧૦રા स गिरमादित पुष्पकरण्डिनी-पतिमहापृतनाङ्गभवा मया / निपुणमारचिता मणिमञ्जरी, न खलु शिल्पविकल्पितमत्र मे // 103 // . स शिल्पी, गिरं वाणीमादित स्वीकृतवान् , जगादेत्यर्थः / किमित्याह--पुष्पकरण्डिन्याः तदाख्यनगर्याः उज्जयिन्या इत्यर्थः / पत्युः महती पृतना सेना यस्य तस्य महासेनाख्यनृपस्येत्यर्थः / "पृतना सेना" इति हैमः / अङ्गभवा पुत्री, मणिमञ्जरी तदाख्या, मया निपुणं स्वकौशलेनात्यनुरूपं यथास्यात्तथा आरचिता निर्मिता सा पुत्रिका मणिमञ्जरी प्रतिबिम्बमित्यर्थः / अत्र पुत्रिकायाम् , मे मम शिल्पेन विज्ञानेन विकल्पितं मनः कल्पनया कल्पितमन्यरूपम.न खल वाक्यालङ्कारे, 'शिल्पकला. विज्ञान' इति हैमः // 103 // ત્યારે તે સૂત્રધારે કીધું કે મારું કંઈ શિલ્પચાતુર્ય નથી, પણ પુષ્પકરંડિની ઉજજયનીના રાજા મહાસેનની પુત્રી મણિમંજરી જ નિપુણતાથી ત્યાં કંડારેલી છે. 103 वचनमभ्युपगम्य स शिल्पिना, स्वपरिकल्पितमुत्तरमब्रवीत् / अहमुपैमि पुरा गणकोत्तमं , गुणकरं परिपृच्छय मुहूर्तकम् // 104 // स मित्रमुत् शिल्पिनः कारोः, वचनम् अभ्युपगम्य स्वीकृत्य श्रुत्वा वा, स्वपरिकल्पितम्, नतु सदर्थम् , ताशवस्तुस्थितेरभावादितिभावः / उत्तरमब्रवीत् / किमित्याह-अहं गणकोत्तमम् ज्योतिविद्वरम् , गुणकरं तदाख्यम्, यद्वा गुणकरं शुभयोगयुक्तम् , अत एव शुभपरिणामप्रदम् मुहूर्तकम् लग्नं परिपृच्छथ पुरा उपम्यागमिष्यामि / अत्र पूर्ववत्पुरायोगे भविष्यति वर्तमाना प्रासादं निमित्तं तवाहानायेति शेषः / नहि कुमुहूर्त एतादृशशुभकार्यमारभ्यत इति भावः // 104 / / ત્યારે તે શિલ્પીના વચન સ્વીકાર કરી, પિતાને કલ્પિત ઉત્તર આપ્યો કે પહેલાં હું સારા જોશી પાસે જઈ શુભ મુહૂર્ત પછી આવું છું. 104 इति निवेद्य स उज्जयिनीपुरी-परिसरेऽपि गतो रजनीमुखे / अवसदायतगोपुरमध्यतः, प्रततगोपुरवासिनिकेतने // 105 // स मित्रमुत्-इति पूर्वोक्तप्रकारं निवेद्य कथयित्वा, उज्जयिनीपुर्याः परिसरे नगरसमीपदेशे अपिश्चार्थे, रजनीमुखे प्रदोषकाले, सन्ध्यासमये इत्यर्थः / 'प्रदोषो रजनीमुखमित्यमरः। गतः प्राप्त इत्यर्थः। आयतस्य अतिदीघस्य गोपुरस्य पुरद्वारस्य मध्यतः मध्ये, “गोपुरं तु पुरद्वारमि"त्यमरः / प्रतते विस्तृते गोपुरवासिनः गोपुररक्षकस्य निकेतने गृहे, अवसत् तस्थौ // 105 / / એમ કહી તે મિત્રસુદ સાંજે ઉજયિની નગરીના પરિસર પાસે આગળના ઉચ્ચ ભૂમિમાં જઈ લાંબા ગેપુર-નગર દ્વારની વચ્ચે વિશાળ ગપુરમાં રહેનારાના ઘરે વાસ કર્યો. 105