SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ आ. विजयदर्शनसूरीश्वररचितवृत्तिसहिते अष्टमः सर्गः / [ 219 नन्तरम् , वदितुमारभत / किमित्याह-मतीनां जलानां समुद्र इव समुद्रः तत्सम्बोधने, महाबुद्धे ! मम मतिः विबुधसद्म देवालयं विधापयितुं निर्मापयितुम् समुत्सहते उत्साहं करोति इच्छतीत्यर्थः / / 98|| તે પિતાનો ઉત્તમ વેશ બનાવી આભૂષણને ધારણ કરી હાથમાં ઉપહાર લઈ પછી તે શિલ્પીના મનોહર ઘરમાં ગયો ને શિપીએ આવવાનું કારણ પૂછયું. 98 તે શિલ્પીએ સરકાર કર્યો છતાં પછી તે બોલવા લાગ્યું કે હે બુદ્ધિમાન દેવાલય બનાવરાવવાને મારો ઉત્સાહ થાય છે. લલા स्थपतिषु प्रथमः प्रथितस्ततः, प्रतिकृति विनिवेदय मत्पुरः / प्रतिकृतिः कृतिनां श्रुतिमागता, यदधिकां वितनोति विभावनाम् // 10 // ततः मम विबुधसद्म निर्मापनोत्साहाद्धेतोः, स्थपतिषु शिल्पिषु प्रथमः अग्रेसरः प्रथितः ख्यातः त्वमिति शेषः / मत्पुरः ममाग्रे प्रतिकृतिम् स्वकृतिप्रतिनिधि विनिवेदय कथय दर्शय वा। ननु प्रतिकृत्या तव किं कर्त्तव्यमिति चेत्तत्राह-यद्यस्माद्धेतोः प्रतिकृतिः, कृतिनां विदुषां श्रुतिमागता श्रुता दृष्टा वा सती, अधिकां सातिशयाम् विभावनामुत्साहं वितनोति करोति / करिष्यमाणप्रतिकृति दृष्टा तस्याश्च रुचिरत्वादुत्साहोद्रको जायते इति भावः // 10 // શિલ્પીઓમાં આપ શ્રેષ્ઠ તરીકેની ખ્યાતિ પામેલા છે. માટે પહેલા મારી આગળ પ્રતિકૃતિ-નકશે. બતા કેમકે પ્રતિકૃતિ સાંભલ્યા પછી બુદ્ધિમાનની ભાવનાને ઘણું વધારે છે. ૧૦૦ના अचकथत् स च सूत्रभृदीदृशं, सुमपुरोपवने रचितं मया / -विरचितं मणिसारकसाधुना, यदपि तद्भवता किमवेक्षितम् ? // 10 // स सूत्रभृत् सूत्रधारः अचकथत् , अवादीच, किमित्याह-सुमपुरस्य कुसुमपुरस्य पाटलिपुत्रापरनामकस्य उपवने उद्याने मया शिल्पिना, ईदृशम् , भवदीहितानुरूपम् रचितम् , यद् देवालयम् मणिसारकसाधुना मणिसारनामवणिजा विरचितम् निर्मापितम् , अपिश्चार्थे / भवता तद् विबुधसम अवेक्षितं दृष्टं किम् ? यदि न दृष्टं तर्हि पश्यतु, तदेव मम कृते: प्रतिकृतिः तवेहितस्य चेत्यर्थः // 101 / / ત્યારે તે સૂત્રધારે કીધું કે કુસુમપુરના ઉપવનમાં જે મેં રચેલું છે ને મણસાર શેઠે બનાવરાવ્યું છે તે શું આપે જોયું છે ? 101 सदवलोकितमित्यभिधाय तं, पुनरपृच्छदसावपि पुत्रिका / प्रतिकृतेन वृता खलु तत्र या, किमपि शिल्पमहो यदि वा तव ? // 12 // असौ मित्रमुत्, सदवलोकितम्, साध्ववलोकितमितीत्थमभिधाय, तं शिल्पिनम् पुनरपि अपृच्छत्-किमित्याह-तत्र विबुधसद्मनि या पुत्रिका प्रतिकृतेन वृता मत्पुत्र्या याशरूपं ताशरूपस्यप्रतिकृतिस्सा पुत्रिका प्रतिकृतेन तदनुरूपेणान्यत्र कृतेन वृता, अनुकृता, खल्विति प्रश्ने यदि वा तव किमपि शिल्पं स्वकल्पितं शिल्पचातुर्यम् ? अहो, आश्चर्यकृत् ! अहो चित्रं तदित्यर्थः // 102 //
SR No.004313
Book TitleShantinath Mahakavyam Part 02
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherNemidarshan Gyanshala
Publication Year1966
Total Pages288
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy