SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ 218 ] श्रीशान्तिनाथमहाकाव्ये अहमियमि पुरा ननु तत्र च, प्रकथिते सुहृदाऽथ सुहृजगौ / / न भविताऽस्मि भवन्तमृते स तद्, व्यतत मासयुगावधिमाधिभृत् // 96 // .. नन्विति प्रश्ने-चो वाक्यालङ्कारे / अहं मित्रमुत् तत्र शिल्पिपुरे पुरा इयर्मि गमिष्यामि, 'पुरा यावतोर्वर्तमाना' 5-3-7 पश्चाज्ञातवृत्तान्तः किमप्युपायं करिष्यामीति भावः / अथ इत्थं सुहृदा मित्रमुदा प्रकथिते सति सुहृद् अमरदत्तः, जगौ, किमित्याह-भवन्तमृते विना न भविताऽस्मि अहं न स्थास्यामि, यद्वा भवितास्मीत्येकं पदम् न जीविष्यामीत्यर्थः / तत्तस्मात्, तदनन्तरं, सः मित्रमुत् आधिभृत् मनोव्यथापूर्णः सन् मित्रदुःखादिति भावः / “पुंस्याधिर्मानसी व्यथे”त्यमरः / मासयुगस्य मासद्वयस्य अवधिमागमनकालमर्यादाम् व्यतत कृतवान् मासद्वयाभ्यन्तर एवाहमागमिष्यामीत्येवं प्रतिज्ञातवानित्यर्थः // 26 // તે હું પહેલાં ત્યાં જાઉ છું એમ મિત્રે કીધે છો, તે મિત્ર રાજપુત્ર બોલ્યો કે તમારા વિના હું રહી શકે નહિ, ત્યારે પીડા અનુભવતા તે મિત્રમુદ બે મહિનાની અવધિ કરી. 19 तमुपरुध्य महेभ्यशिरोमणि, निजसुहृत्परिरक्षणकर्मणि / जलधितीरमतीत्य स तत्पुरं, प्रथितमासददुत्तमलक्षणैः // 97 // महेभ्यशिरोमणि-तं मणिसारं निजसुहृदोऽमरदत्तस्य परिरक्षणकर्मणि परिचर्यायाम, उपाध्य सप्रार्थनं संयोज्य, स मित्रमुत् जलधितीरमतीत्य उल्लङ्घय, उत्तमलक्षणैः प्रशस्तैः चिह्नः प्रथितं ज्ञातं तत्पुरं ख्यातं युगाख्यं सोपारकेत्यपराख्यं महापुरमासदत् / / 9 / / પછી તે શ્રેષ્ઠી શિરોમણિને પોતાના મિત્રની રક્ષા માટે પ્રાર્થના કરી તે સમુદ્રકાંઠાને વટાવી ઉત્તમ લક્ષણોથી ઓળખાઈ ગયેલા તે નગરમાં પહોંચ્યો. ૯ળા विहितवेशविशेषविभूषणः, स उपदापदपाणिसरोरुहः / तदथ तक्षगृहं रुचिरं गतः, सुपरिपृष्टसमागमकारणः // 98 // रचितसत्कृतिरीप्सितशिल्पिना, वदितुमारभतायमनन्तरम् / विबुधसद्म विधापयितुं मति-मतिसमुद्र ! समुत्सहते मम // 99 / / विहितः रचितः वेषः संस्कृताकारः ( वेषविशेषः नूतनवेषश्च विभूषणं च वेषविशेषविभूषणे विहिते वेषविशेषविभूषणे ) येन स चासौ विशेषः विशिष्टं विभूषणं यस्य स तादृशः, संस्कृतस्वरूपः भूषणभूषितश्चेत्यर्थः / तथा, उपदा उपहारः तत्पदं पात्रम् उपहारभृतम् पाणिः सरोरुहमिव यस्य स तादृशः हस्ते नीतोपहारः, चिन्तितकार्यसिद्धये एतेषामुपयोगं विचार्येतिभावः / रुचिरं मनोहरम्, तत्तक्षगृहं शिल्पिनः शूरकस्य गृहं गतः / ईप्सितेन स्वाभीष्टेन शिल्पिना शूरकतक्ष्णा रचितसत्कृतिः कृतातिथ्यः, सुपरिपृष्टसमागमकारणः, सुः सम्यक परिपृष्टं पृच्छाविषयीकृतं समागमस्यागमनस्य कारणं यस्य स तथाभूतः सोऽयं किमर्थं भवानागत इत्येवं पृष्टः सन् सोऽयम् मित्रमुत्, अनन्तरम्, प्रना
SR No.004313
Book TitleShantinath Mahakavyam Part 02
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherNemidarshan Gyanshala
Publication Year1966
Total Pages288
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy