SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ 12 ] श्रीशान्तिनाथमहाकाव्ये अनल्पः महान् बोधः ज्ञानं यस्य स सुधीः, नैमित्तिकः ज्योतिर्विद् अजल्पद उवाच / किमित्याह-भोणीशुनासीर ! क्षितीन्द्र ! राजन् ! तत्त्वम् मदागमनोद्देश्य, निबोध अवधारय / यद्यपि विधात्रा विश्वसृजा 'विधाता विश्वसृद्विधि' रित्यमरः / अस्मादृशा वृत्तिः जीवनम् , 'वृत्तिर्वर्तनजीवने' इत्यमरः / याचितेन याचनेन कृत्वा, परिकल्पिता निर्मिता अस्ति भिक्षावृत्तिरयमित्यर्थः // 36 // મહાજ્ઞાની એ તે નૈમિતિક બોલ્યો- હે મહીન્દ્ર ! પરમાર્થ (રહસ્ય) સમજે. જો કે વિધાતાએ ભિક્ષાથી જ અમારા જેવાઓનું જીવનયાપન કપેલું છે. 36 ननु तहि भिक्षणीयं वदेति चेत्तत्राहत्वत्तस्तथाप्यर्थयितुं न चागां, किन्त्वागमं दर्शयितुं कलाः स्वार / युष्मादृशामग्रत एव धीराः, क्लान्ति कलानां शमयन्ति यस्मात् // 37 // तथापि त्वत्तः भवतः, अर्थयितुं याचितुं न च नैव आगामागमम् ननु तर्हि किमर्थमागमनं तवेति चेत्तत्राह-किन्तु, स्वाः कलाः कौशलानि दर्शयितुम् आगमम् / ननु किमित्यन्यत्र न गतमित्याशकथाह यस्माद्धेतोः, धीराः कलाकृतः, युष्मादृशाम् कलाज्ञानां अग्रतः एव न तु अकलाज्ञानामग्रतः नैष्फल्यादिति भावः / कलानां कलाभ्यासप्रदर्शनादिजन्याँ क्लान्ति श्रमं शमयन्ति दूरीकुर्वन्ति / अन्यत्र निर्गुणेषु तु क्लान्तिवृद्धिरेव, तैस्तन्महत्त्वस्यागणनात् / गुणिनि गुणज्ञो रमते इति भावः // 37 // છતાં તમારાથી કંઈક માંગવાને આવ્યો નથી. કિન્તુ પોતાની કલા બતાવવા આવ્યો છું. કેમકે કલાવતા તમારા જેવાઓની આગળ જ કલાના શ્રમને શમાવે છે. તેના ननु कतिपये कलाकृतोऽत्रागताः, कला प्रदर्शितवन्तश्च, एवं च सामान्यतो दृष्टस्य पुनः प्रदर्शन पिष्टपेषणमेवेति तव नात्रावसर इति चेत्तत्राह ज्योतिर्विदः सन्ति परःसहस्रा, येऽतीतमुद्भावयितुं क्षमन्ते / येऽनागतं किश्चन सम्प्रदर्य, कौतूहलं राजहृदां न तेऽत्र // 38 // परःसहस्राः सहस्रात्परे इति परःसहस्राः अनेके, ज्योतिर्विदः दैवज्ञाः सन्ति / के ते इत्याहये अतीतं भूतम् , उद्भावयितुं प्रकटयितुं कथयितुं वा क्षमन्ते अर्हन्ति, ये, अनागतं भविष्यत् किश्चत् सम्प्रदोद्भाव्य राजहृदां भवादृशनृपमनसां, कौतूहलं कौतुकं, तन्वन्तीति शेषः / ते तादृशाः अत्र . काले, न नैव सन्ति, एवं च नान्यैर्गतार्थ मदीयं कौशलम् , अत्र तत्राभिनवतायाः सद्भावात् इति भावः // 38 // એવા હજારે જ્યોતિષીઓ છે, જે ભૂતને પ્રગટ કરી શકે છે. જેઓ કંઈક ભવિષ્ય દેખાડીને રાજાના હૃદયમાં કોતુહલ ઉત્પન્ન કરે, તેવાઓ અહીં નથી. 38 अथ तस्य भविष्यत्कथनमाहतरिक विजानासि मयेति पृष्टे, तेनोक्तमाकर्णय भूमिपाल ! / घस्रादितः सप्तमकेऽपि घने, मध्याह्नकाले पतिताशनिर्द्राक् // 36 //
SR No.004313
Book TitleShantinath Mahakavyam Part 02
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherNemidarshan Gyanshala
Publication Year1966
Total Pages288
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy