________________ आ. विजयदर्शनसूरीश्वररचितवृत्तिसहिते पञ्चमः सर्गः / [11 प्रहृष्टं सानन्दम् , एतेन प्रश्नावसरः समर्थितः, हृष्टादेव साधूत्तरलाभसम्भवात् / श्रीविजयम् क्षितीशः राजा, अर्ककीर्तिप्रभवः अमिततेजाः, स्मेरम् स्मितयुक्तमाननं मुखं यस्य स तादृशः स्मयमानः सन्। एतेन तस्य स्मितपूर्वभाषितं सूचितम् / ऊचे / किमित्याह-ते तवैतत्पोतनं पुरम् / क्रतूनां श्राद्भपञ्चमप्रतिमारूपाणां नियमविशेषाणां पूर्वभवे शतवारं कृतानां प्रतिपालकत्वात् तै राजते शोभते इति ऋतुराजः / स चासौ शक्रश्च / तादृशः, तस्य सौराज्येन उत्तमेन राज्येन स्वर्गेण सम्बन्ध एव दिनम् , तम् , ऋतुराजेति विशेषणमिन्द्रान्तरनिवृत्तये, नहि सर्वोऽपीन्द्रः ऋतुराज इति भावः / विनैव, उदित्वराः उदयं गच्छन्तः येऽशवः तैः प्रोत्फुल्लानि विकसितानि यानि पाथोरुहाणि कमलानि तैस्तुल्यम् उदित्वरांशुप्रोत्फुल्लपाथोरुहवत्, किम् कुतः. ईहक विलक्षणम् , आमोदेन प्रमोदेन, अथ सुगन्धिना संकीर्ण व्याप्तं संजातम् ? तस्माद्धेतोः प्रिय मित्र, अत्र विषयं चित्रमाश्चर्यकरं तस्य हेतुम् , ममापि निवेदय कथय, येन मत्कुतूहलनिवृत्तिः स्यात् // 32 // 33 // આકીર્તિના પુત્ર અમિતતેજ રાજાએ આનંદિત એવા શ્રી વિજયને કહ્યું કે શતતુ, ઈન્દ્ર, સૌરાજ્યના સંબંધવાળા દિન વિના જ (આજનો દિન રાજપદને કે ઈન્દ્રપૂજાનો અથવા સૌરાજ્ય લાભને નથી છતાંય) તમારું આ નગર ઉદય-સૂર્ય કિરણોથી વિકસિત કમળ જેમ અમદ-સુગંધિથી વ્યાપ્ત હોય તેમ અમોદ-આનંદથી આમ વ્યાપ્ત કેમ છે ? હે પ્રિય મિત્ર ! અહીં થયેલું અદૂભૂત એવું તેનું કારણ મને પણ જણાવો. 32-33 अथ कृतोत्तरमाहतस्योक्तमेतद्धृदये निधाय, प्राह स्म स श्रीविजयोऽतिवाग्मी / अस्मादिनादष्टमके दिनेऽत्र, ज्योतिर्विदेकः समुपाजगाम // 34 // तस्यामिततेजसः एतदुक्तं पूर्वोक्तं हृदि निधाय अवधार्य, अतिवाग्मी पटुवाक् , स श्रीविजयः प्राह स्म अवोचद् , किमित्याह अस्माद्वर्तमानाद् दिनाद्, अष्टमके व्यतीतेऽष्टमे दिने, अत्र नगरे, एका उत्तमः, ज्योतिर्विदैवज्ञः समुपाजगाम आगतवान् // 34 // તેનાં આ વચન હદયમાં ધારી અત્યંત (હિતમિત વચનવાળો) વાગ્મી તે શ્રી વિજય બોલે. અહી આ દિનથી ગયા આઠમે દિને એક તિષી આવ્યો હતો. 34 आशीःप्रदानैरभिनन्ध मां स, प्रत्तासनो वेत्रभृता निविष्टः / यत्कार्यमुद्दिश्य समागमस्त्वं, तन्मे द्विज ! ब्राहि मयेति पृष्टः // 3 // ___ आशी:प्रदानैः माम् अभिनन्द्याभिवर्ध्य, वेत्रभृता अङ्करक्षकेण प्रत्तं दत्तमासनं यस्य सः तादृशः, निविष्ट उपविष्टः सः, द्विज ! यत्कार्यम् उद्दिश्य त्वं समागमः आगतवानसि, तत्कार्य मम बहि, इतीत्थं मया पृष्टः प्रश्रपदीकृतः // 35 // તે આશીર્વાદ આપવા વડે મારુ અભિનંદન કરી દ્વારપાલ વડે અપાયેલા આસન ઉપર બેઠે. હે બ્રાહ્મણ ! જે કાર્યને ઉદ્દેશીને તમે આવ્યા છે, તે મને કહે. એમ મેં તેમને પૂછયું. 35 नैमित्तिकोऽजन्पदनल्पबोधः, क्षोणीसुनाशीर ! निबोध तस्वम् / अस्मादृशां यद्यपि याचितेन, वृत्तिर्विधात्रा परिकल्पिताऽस्ति // 36 //