________________ 10] श्रीशान्तिनाथमहाकाम्ये पुनः पुरमेव विशिनष्टिआम्रच्छदैरुद्ग्रथितैर्निवद्ध-स्फारीभवद्वन्दनमालिकं च / पौरैः प्रमोदाकुलितैरनेकै-राधीयमानोत्सवमादरेण // 29 // ऊर्ध्व यथा स्यात्तथा प्रथितैः, आम्रच्छदैराम्रपत्रैः निबद्धं समन्वितम् , अत एव, स्फारीभवन्त्यः विलसन्त्यः वन्दनमालिकाः तोरणद्वारस्रजः यत्र तत्तादृशम् , तथा, प्रमोदेन प्रहर्षेण आकुलितैः व्याप्तैः सम्भृतैः अनेकः पौरः, आदरेण साग्रहम् , आधीयमानाः क्रियमाणा उत्सवा यत्र तत् तादृशं च, पोतनं पुरमगादिति पूर्वेणान्वयः // 29 // तत्पुरं दृष्ट्वा तद्भावमाहआनन्दसम्फुल्चविलोचनश्री-दृग्गोचरीकृत्य विसिष्मिये तत् / किं स्वर्गतः स्वर्गपुरं समागा-दत्यद्भतश्रीभिरिति श्रितोहः // 30 // . तत्पोतनपुरं दृग्गोचरीकृत्य दृष्ट्वा, आनन्देन संफुल्ला विकासं गता विलोचनयोः नेत्रयोः श्रीः शोभा यस्य स तादृशः अर्ककीर्तिसुतः, किमिति वितर्के, स्वर्गतः नाकात् , अत्यद्भुतश्रीभिः, सहेति शेषः, स्वर्गपुर समागाद्, इतीत्थं, श्रितः कृत उहः तर्कः येन स तादृशः सन् , विस्मिलिये चित्रीयते स्म, आश्चर्यम् आप्तवान् // 30 // એક સમયે બહેનને જોવાને ઉત્કંઠિત થયેલા રાજા આ કીર્તિ-અમિતતેજ પોતનપુર ગયા. પ્રત્યેક મહેલ ઉપર ઊભા કરાયેલા લાખે પતાકાથી યુક્ત મોટા અને મોવાળા ગુંથાયેલા આમ્રપત્રોથી રચાયેલી અને બંધાયેલી વન્દન માળાઓથી શોભાયમાન. આનંદમગ્ન અનેક પુરવાસી વડે આદરથી રચાતા ઉત્સવવાળા એવા તેનગરને જોઈને આનંદથી વિકસિત નેત્ર શોભાવાળા તે આર્કકીર્તિ અમિતતેજ સ્વર્ગથી અનન્ત અદ્દભુત લક્ષ્મીઓની સાથે સ્વર્ગ પુર આવ્યું છે કે શું એમ તર્ક કરતે વિસ્મય પામે. શર૮-૨૯-૩ના एतं समायान्तमपेतदोषं, भूमीपतिः श्रीविजयोऽभ्युदस्थात् / अन्योन्यमाश्लिष्य निषेदतुस्ता-वेकासने प्रेम निदर्शयन्तौ // 31 // अपेतः दूरीभूतो दोषो यतस्तं सद्गुणम् , एतममिततेजसं समायान्तम् , अभि अभिमुखम् , भूमीपतिः श्रीविजयः उदस्थात् अभ्युत्थानमकरोदित्यर्थः / तथा तौ अमिततेजःश्रीविजयौ प्रेम प्रीतिं . निदर्शयन्तौ प्रकटयन्तौ, अन्योन्यं परस्परमाश्लिष्यालिङ्गय, एकासने निषेदतुरुप विविशतुः // 31 // દોષોથી રહિત એવા તેને આવેલા જોઈને રાજા શ્રી વિજયે અભ્યસ્થાન કર્યું? તે બને પરસ્પર આલિંગન કરીને પ્રેમ બતાવતા એક જ આસન ઉપર બેઠા ૩જા ___ अथामिततेजसो जिज्ञासां श्लोकद्वयेनाहऊचेऽर्ककीर्तिप्रभवः क्षितीशः, स्मेराननः श्रीविजयं प्रहृष्टम् / एतत्पुरं ते ऋतुराजशक्र-सौराज्यसम्बन्धदिनं विनैव // 32 // आमोदसंकीर्णमुदित्वरांशु-प्रोत्फुलपाथोरुहवत् किमीदृक् ? / संजातमावेदय तन्ममापि, हेतुं तदत्र प्रियमित्र ! चित्रम् // 33 //