SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ आ. विजयदर्शनसूरीश्वररचितवृत्तिसहिते पञ्चमः सर्गः / वाचंयमानामधिपस्य वाचं, तस्यैवमाकर्ण्य स मानवेन्द्रः / राज्ये निवेश्यामिततेजसं तं, पुत्रं प्रपेदे पदवीं मुनीनाम् // 25 // स मानवेन्द्रः नृपः अर्ककोतिः, तस्य वाचंयमानां वतिनामधिपस्याभिनन्दनस्य सूरेः, एवं पूर्वोक्ता वाचमाकर्ण्य, राज्ये तममिततेजसं पुत्रं निवेश्य, मुनीनां पदवी, प्रपेदे प्राप, दीक्षा गृहीतवानित्यर्थः।।२५।। મુનિઓના અધિપ તે શ્રી અભિનંદનની આવી વાણી સાંભળીને રાજાએ પુત્ર અમિતતેજને રાજ્ય ઉપર સ્થાપન કરી મુનિપદને સ્વીકાર કર્યો. પરપા शौरित्रिपृष्ठस्य मृतेरितश्च, शोकप्लुतान्ताकरणोऽचलोऽपि / नीलाम्बरः प्रव्रजति स्म राज्ये, दोद्धतं श्रीविजयं निवेश्य // 26 // इतश्च शौरिर्विष्णुः "शौरिः श्रीपतिः पुरुषोत्तमः" इत्यमरः / स चासौ त्रिपृष्ठस्तस्य मृतेः परलोकगमनाद्धेतो शोकप्लुतान्तःकरणः शोकेन प्लुतं व्यापृतमन्तःकरणं चित्तं यस्य स तादृशः / अचलः तन्नामापि नीलाम्बरः नीलमम्बरं यस्य स तथा, बलदेव इत्यर्थः 'हलायुधः नीलाम्बरः' इत्यमरः / विरज्येति शेषः। राज्ये दर्पोद्धतमतिप्रतापं श्रीविजयं त्रिपृष्ठपुत्रं निवेश्य / प्रव्रजति स्म-दीक्षा लाति स्म // 26 / / આ બાજુ વાસુદેવ ત્રિપુષ્ટના મરણથી શોકમગ્ન મનવાળા અચલ બળભદ્ર પણ અત્યન્ત દર્પવાલા શ્રીવિજયને રાજ્ય ઉપર સ્થા પન કરીને દીક્ષા લીધી. 26 सिंहासनं पित्र्यमधिष्ठितौ तौ, विभ्र'जतुर्विक्रमसंभृतांसौ / कैलास शैलस्य विशालशृङ्ग, पञ्चास्यशावाविव मानवासौ // 27 // पित्र्यं-( पितुरिदं पितृसम्बन्धी ) पितुः प्राप्त, सिंहासनं राज्यासनम् अधिष्ठितौ, विक्रमेण पराक्रमेण सम्भृतौ सम्पूर्णौ अंसौ स्कन्धौ ययोस्तौ श्रोविजयामिततेजसौ कैलासाख्यस्य शैलस्य पर्वतस्य विशालं शृङ्ग शिखरम्, अधिष्ठितौ, मानः दर्पः वसति अत्रेति तौ दर्पोद्धरौ मानस्य दर्पस्य वासो यत्र तौ तथा पञ्चास्ययोः सिंहयोः शावौ शिशू इव विभेजतुः दीप्येते स्म // 27 // માનવીય સમ્માન યોગ્ય અને પરાક્રમથી પૂર્ણ કંધવાળા એવા તે બને (અમિતતેજ, શ્રીવિજય) પિતાના સિંહાસનને, કેલાશ પર્વતના વિશાળ શિખરને બે સિંહ શિશુની જેમ આશ્રિત કરીને શોભતા હતા. તેરા अथार्ककीर्तेः पुत्रस्यामिततेजसः पोतननगरगमनमाहराजाकीर्तिः पुरमेकदा चा-गात्पोतनं जामिदिदृक्षयोत्कः / प्रत्यट्टमूर्वीकृतवैजयन्ती-लक्षं महामश्चविपश्चितं च // 28 // एकदा च राजा आर्ककीर्तिः आर्ककीर्तेरपत्यममिततेजाः जामेः स्वसुः सुताराया दिदृक्षया द्रष्टुमिच्छया 'जामिस्तु भगिनी स्वसा' इति हैमः / उक. उत्कण्ठितः सर, प्रत्यहम् प्रतिइटम् 'अटो हट्टो विपणिरापगः' इति हैम. / ऊर्बोकृतम् उच्चैः स्थापितम् वैजयन्तीनां पताकानां लझं यस्मिन् तादृशम् 'वैजयन्ती पुनः केतुः पताका' इति हैमः / तथा, महद्भिः विशालैः मछः विपतिं समन्वितं पोतनं तदाख्यं पुरमगात् // 28 //
SR No.004313
Book TitleShantinath Mahakavyam Part 02
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherNemidarshan Gyanshala
Publication Year1966
Total Pages288
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy